________________
पञ्चमः सर्गः तृतीया च' इति सप्तम्यर्थे तृतीया । शासितुर्गुरोराशयाऽप्यात्मना स्वतो वा 'प्रकृत्यादिभ्य उपसंख्यानम्', इति तृतीया। मां संभावयितुं वनात्प्राप्तोऽसि, गुर्व' स्वार्थ वाऽऽगमनमित्यर्थः ॥११॥
__ अन्वयः-अर्हतः, तव, अभिगमेन, मे, मनः, न, तृप्तम् , किन्तु, नियोगक्रियया, उत्सुकम् , शासितुः, आशया, अपि आत्मना, वा, माम् , सम्भावयितुम् , वनात्, प्राप्तः, असि ?
वाच्य०-मनसा, न, तृप्तेन 'भूयते' उत्सुकेन, वनात् , प्राप्तेन, 'भूयते' ।
व्याख्या-अर्हतः पूज्यस्य । तव कौत्सस्य । अभिगमेन आगमनेन । मे-मम रघोः। मनः चित्तम् । न नैव । तृप्तम्-सन्तुष्टम् । 'किन्तु' नियोगस्य% आज्ञायाः, क्रियाकरणम् नियोगक्रिया, तया नियोगक्रियया । उत्सुकम्-उत्कण्ठितम् । शासितुः-शिक्षकस्य । आशया आदेशेन । अपि=किमु । आत्मना स्वतः । वा अथवा । माम् =रघुम् । सम्भावथितुम्-सत्कर्तुम् । वनात्-अरण्यात्; प्राप्तः आगतः, असि भवसि ?
समा:-नियोगस्य क्रिया नियोगक्रिया, तया नियोगक्रियया ।
अभि०-हे कौत्स ! यदेतत्तव शुभागमनमिह जातमेतेन न मे मनसि तृप्तिः, अपि तु तवाजाश्रवणविषये महत्युत्कण्ठा वर्तते, तस्माद् ब्रहि किं त्वमिह गुरोरादेशात्प्राप्तोऽथवा स्वतः ?.
हिन्दी-हे कौत्स ! पूज्य तुम्हारे पाने मात्र से मेरा मन तृप्त नहीं हो सका है, किन्तु तुम्हारी आशा सुनने की बड़ी उत्कण्ठा हो रही है। अतः कहो, तुम्हारा आना गुरुजी के कार्य से हुआ, अथवा अपने ही कार्य से ? ॥११॥
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य । वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः ॥१२॥
सञ्जीविनी-अर्घ्यपात्रेण मृन्मयेनानुमितो व्ययः सर्वस्वत्यागो यस्य तस्य रघोरित्युक्तप्रकारामुदारामौदार्ययुक्तामपि गां वाचम् 'मनो नियोगक्रिययोत्सुकं मे' इत्येवंरूपाम् । 'स्वर्गेषुपशुवाग्वजदिङनेत्रवृणिभूजले। लक्ष्यदृष्टया स्त्रियां पुंसि गौः' इत्यमरः। निशम्य श्रुत्वा वरतन्तुशिष्यः कौत्सः स्वार्थोपपत्ति स्वकार्यसिद्धि प्रति दुर्बलाशः सन्मृन्मयपात्रदर्शनाच्छिथिलमनोरथः संस्तं रघुमिति वक्ष्यमाणप्रकारेणावोचत् ॥१२॥