________________
रघुवंशमहाकाव्ये मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । वर्तन्ते गृहिणस्तद्वदाश्रित्येतर आश्रमाः" इति ॥१०॥
अन्वयः-त्वम् , प्रसन्नेन, 'सता' महषिणा, सम्यग, विनीय, गृहाय, अनुमतः, अपि ? हि, ते, सर्वोपकारक्षम, द्वितीयम् , आश्रमम् , संक्रमितुम् , अयम् , कालः 'अस्ति' ।
वाच्य-त्वाम् प्रसन्नः 'सन्' महर्षिः गृहाय, अनुमतवान् , अनेन, कालेन, भूयते ।
व्याख्या-खम् कौत्सः । प्रसन्नेन-तुष्टेन, 'सता' । महर्षिणा महामुनिना । सम्यक् यथावत् । विनीय=शिक्षयित्वा । गृहायगृहस्थाश्रमं प्रवेष्टुम् । अनुमतः= संमतः, अपि=किम् ? हि=यतः ते=तव, कौत्सस्य । सर्वेषाम् सकलानाम् , आश्रमाणामित्यर्थः, उपकार:=उपकृतिः, इति सर्वोपकारः, सर्वोरकारे क्षमः समर्थः इति सर्वोपकारक्षमः । तं सर्वोपकारक्षमम् । द्वितीयम्=प्रथमाश्रमादरे वर्तमानम् । . आश्रमम्-गृहस्थाश्रमम् । संक्रमितुम्=प्रवेष्टुम् । अयम् एषः, काल: समयः, 'अस्ति' ।
समा०-सर्वेषामुपकारः सर्वोपकारः, सर्वोपकारे क्षमः सर्वोपकारक्षमः, तम् सर्वोपकारक्षमम् । महांश्चासौ ऋषिश्च महर्षिः, तेन ।
अभि-त्वद्गुरुणा महर्षिणा वरतन्तुना त्वं यथाविधि शिक्षयित्वा कि गृहस्थाश्रमं प्रवेष्टुमादिष्टः ? यत इदानीं ते वयः सर्वेषामप्याश्रमाणामुपकारकं गृहस्थाश्रमं प्रवेष्टुं योग्यमस्ति ।
हिन्दी-क्या तुम्हारे गुरु महर्षि वरतन्तुजी ने तुम्हें विधिपूर्वक शिक्षा में निष्णात करके, घर जाने की आज्ञा दे दी हैं ? क्योंकि यह तुम्हारी अवस्था, ब्रह्मचर्य, गृहस्थ, वानप्रस्थ एवं संन्यास इन चारों आश्रमों के उपकारक गृहस्थआश्रम में प्रवेश करने के योग्य है ॥१०॥ कुशलप्रश्न विधायागमनप्रयोजनप्रश्नं चिकीर्षुराह
तवाहतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं भे। अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ।।११।।
सञ्जीविनी-अर्हतः पूज्यस्य प्रशस्यस्य 'अर्हः प्रशंसायाम्' इति शतृप्रत्ययः। तवाभिगमेनागमनमात्रेण मे मनो न तृप्तं न तुष्टम् । किंतु नियोगक्रिययाऽऽ ज्ञाकरणेनोत्सुकं सोत्कण्ठम् 'इष्टार्थोद्युक्त उत्सुकः' इत्यमरः । 'प्रसितोत्सुकाभ्यां