________________
पञ्चमः सर्गः भवं वन्यम् । शरीरस्य देहस्य, स्थितिःधारणम्, इति शरीरस्थितिः, शरीरस्थितः साधनम् = उपायभूतम् इति शरीरस्थितिसाधनम् । वा-युष्माकम् । पच्यते = पक्कं भवति, इति पाक: फलमित्यर्थः, नीवाराणाम् = धान्यविशेषाणाम् , पाक: इति नीवारपाकः, नीवारपाक: आदिः यस्य तत् नीवारपाकादि बनपदस्येमे जानपदाः नागराः, तैः जानपदैः। कडङ्गरं = बुसम् अर्हन्ति इति कडङ्गरायाः गोमहिषादय इत्यर्थः, तैः कडङ्गरीयैः न=नहि। आमृश्यते भक्ष्यते, कच्चित् किम् ?
समास:-कालेषु उपपन्नाः कालोपपन्नाः, कालोपन्नाः च ते अतिथयः इति कालोपपन्नातिथयः, कालोपरन्नातिथीनां कल्प्या भागाः यस्य तत् कालोपपन्नातिथिकल्प्यभागम् । वने भवं वन्यम् । शरीरस्य स्थितिः शरीरस्थितिः, शरीरस्थितेः साधनं शरीरस्थितिसाधनम् । नीवाराणां पाकः नीवारपाकः, नीवारपाकः आदिः यस्य तत् नीवारपाकादि । जनपदस्येमे जानपदाः, तः जानपदैः। कडङ्गरम् अर्हन्ति इति कडङ्गरीयाः, तैः कडङ्गरीयैः । __भि०-बलिवैश्वदेवकर्मान्ते योग्यसमये समागतानामतिथीनामपि जीवनोपायभूतं यदनोद्भव नीवारश्यामाकादिधान्यं युष्माकं भक्ष्य तन्नगरादागतगोमहिषादिभिस्तु न भक्ष्यते किम् ?
हिन्दी-बलिवैश्वदेव कर्म के अनन्तर उचित समय पर आनेवाले, अतिथियों के भाग भी जिनसे निकाले जाते हैं, ऐसे आप लोगों के जीवन के आधार, वन के नीवार आदि धान्य को नगर से आये गाय, भैस आदि पशु तो नहीं खा जाते हैं ? ॥६॥
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥१०॥ सञ्जीविनी-किञ्च त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा विद्यामुपदिश्येत्यर्थः। गृहाय गृहस्थाश्रमं प्रवेष्टुं 'क्रियार्थोपपद०' इत्यादिना चतुर्थी । अनुमतोऽप्यनुज्ञातः किम् , हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्यवानप्रस्थयतीनामुपकारे क्षमं शक्तम् 'क्षम शके हिते त्रिषु' इत्यमरः। द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः, विद्याग्रहणानन्तर्यात्तस्येति भावः । 'कालसमयवेलासु तमुन्' इति तुमुन् । बोपकारतममित्यत्र मनुः- "य"