________________
१८
रघुवंशमहाकाव्ये
अभि०-हे राजन् ! विश्वजिति यशे सत्पात्रेषु स्वीयां सर्वामपि समृद्धि प्रदाय केवलेन स्वशरीरेणैव स्थितस्वं तथैव शोभां वहसि यथा स काण्डमात्रावशिष्टो नीवारो यस्य फलप्रसूतिर्वन्यजनैनि:शेषं गहीता भवेत् ।
हिन्दी-हे राजन् ! विश्वजित यज्ञमें अपनी सम्पूर्ण समृद्धि सत्पात्रों को दान कर केवल, अपने शरीर से स्थित आप ठीक उसी प्रकार से शोभित हो रहे हैं, जैसे कि वह ठंट रूपमें स्थित नीवार, जिसके फल वनवासियों ने तोड़ लिये हो ।।१५।।
स्थाने भवानेकराधिपः सन्नकिन्चनत्वं मखजं व्यनक्ति ।
पर्यायपीतस्य सुरेहिमांशोः कलाक्षयः इलाध्यतरो हि वृद्धेः ॥१६॥ सजीविनी-भवानेकनराधिपः सार्वभौमः सन् मखजं मखजन्यम् न विद्यते किंचन यस्येत्यकिञ्चनः। मयूरव्यंसकादित्वात्तत्पुरुषः। तस्य भावस्तत्त्वं निर्धनरवं व्यक्ति प्रकटयति स्थाने युक्तम् 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । तथाहि सुरैर्देवैः पर्यायेण क्रमेण पीतस्प हिमांशोः कलाल्यो वृद्धरुपचयाच श्लाध्यतरो हि वरः खलु ! 'मणिः शाणोल्लीढः समरविजयी हेतिनिहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः । कलाशेषश्चन्द्रः सुरतमदिता बालवनिता निम्ना शोमन्ते गलितविभवाश्चाथि नृपाः' इति भावः । अत्र कामन्दक:--- धर्मार्थ क्षीण कोषस्थ क्षीणवर्माप शोभते । सुरैः पीतावशेषस्य कृष्णपक्षे विधोरिय' इति ।।१६।।
अन्वयः भवान् , एकनराधिपः, सन् , मखजम् , अकिञ्चनत्वम् , यत् व्यक्ति, 'तत्' स्थाने, हि सुरैः पर्यायपीतस्य, हिमांशोः कलाक्षयः, वृद्धेः, श्लाध्यतरः ‘भवति।
वाच्य..-भवता, एकनराधिपेन अकिंचनत्वं व्यजाते, कलाक्षयेण, श्लाघ्यतरेण भूयते'।
व्याख्या- भवान्रः । नराणाम् मनुष्याणाम् अधिपः स्वामी, नराधिपः । एक: केवलश्वासौ नराधिपः इति एकनराधिपः । 'सन्' । मखात्-यज्ञाद् जातम् -उत्पन्नन् , मख जम् । ननहि, विद्यते किञ्चन किमपि यस्य सः अकिञ्चनः= धनशून्यः, अकिञ्चनस्य भावः अकिञ्चनत्वम् धनराहित्यमित्यर्थः । 'यत्', व्यनक्ति-प्रकटयति । 'तत्' स्थाने युक्तम् । हि-यतः। सुरैः=देवैः । पर्यायेण= क्रमशः पीतः=पानविषयीकृत: इति पर्यायपीतः, तस्य पर्यायपीतस्य । हिमाः शीतलाः, अंशवः--किरणाः यस्य सः हिमांशुः चन्द्र इत्यर्थः, तस्य हिमांशो ।