________________
पञ्चमः सर्गः
हिन्दी - तुम्हारे गुरुजी ने मन, वाणी तथा शरीर से इन्द्र के धैर्य को भग्न करनेवाला जो तप का सञ्चय किया है, कहीं उसका इन्द्र द्वारा भेजी अप्सराओं से किये विघ्नों से क्षय तो नहीं होता है ? ||५||
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् । कञ्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ||६|
सञ्जीविनी - आधारबन्धप्रमुखैरालवालनिर्माणादिभिः प्रयत्नैरुपायैः 'आधार आलवालेऽम्बुबन्धेऽधिकरणेऽपि च' इति विश्वः । सुतेभ्यो निर्गतो विशेषोऽतिशयो यस्मिन्कर्मणि तत्तथा संवर्धितानां श्रमच्छिदां वः आश्रमपादपानां वाय्वादिः आदिशन्दादावानलादिः उपप्लवो बाघको न कच्चिन्नास्ति किम् || ६ || अन्वयः– आधारबन्धप्रमुखैः प्रयत्नैः सुतनिर्विशेषम् संवर्धितानां, श्रमच्छिदाम्, वः, आश्रमपादपानाम्, वाय्वादिः, उपप्लवः, न, कच्चित् !
वाच्य० - वाय्वादिना, उपप्लवेन, न, 'भूयते' कश्चित् ?
"
श्रमं = खेदं,
व्याख्या - आधारस्य = आलवालस्य = बन्धः = बन्धनम् आधारबन्धः, आधारबन्ध एव प्रमुखः = प्रधानं येषां ते श्राधारबन्धप्रमुखाः, तैः आधारबन्धप्रमुखैः । प्रयस्नैः=उपायैः । सुतात् = पुत्रात् निर्विशेषम् = वैशिष्ट्यरहितम्, समानमित्यर्थः । संवर्धितानाम्=परिवर्धितानां छिन्दन्ति = नाशयन्ति, इति श्रमच्छिदः, तेषां श्रमच्छिदाम् । आश्रमस्य = मुन्यावासस्य, पादपाः=वृक्षाः, इति आश्रमपादपाः, तेषां आश्रमपादपानां वायु:पवनः, आदिः = प्रथमः यस्य सः वाय्वादिः । उपप्लवः=उत्पातः। न=नहि कच्चित् = किम् ?
•
समा० - आधारस्य बन्धः आधारबन्धः, आधारबन्धः एव प्रमुखः येषाम् ते आधारबन्धप्रमुखाः, तैः आधारबन्धप्रमुखैः । निर्गतः विशेषः यस्मिन्कर्मणि तत् निर्विशेषम्, सुतात् निर्विशेषं सुतनिर्विशेषम् । श्रमं छिन्दन्ति इति श्रमच्छिदः, तेषाम् श्रमच्छिदाम् । आश्रमस्य पादपाः इति आश्रमपादपाः, तेषाम् आश्रमपादपानाम् । वायुः आदि यस्यः सः वाय्वादिः ।
J
अभि० - युष्माभिराश्रमवृक्षाणामालवालनिर्माणादिरूपेण पुत्रवरपालनं क्रियते कश्चित्तेषामेवाश्रमतरूणां कृते वाय्यादिप्रकोपस्तु न जायते ?
हिन्दी - जिन आश्रम के वृक्षों का आलवाल अर्थात् थावला ( क्यारी )