________________
रघुवंशमहाकाव्ये बनाने आदि से पुत्र की तरह पालन किया जाता है और जिनसे छाया मिलती है उनके ऊपर आंधी आदि उपद्रवों का प्रकोप तो नहीं होता ? ॥ ६॥
क्रियानिमित्तेष्वपि वत्सलत्वादभम्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः ॥७॥ सञ्जीविनी-क्रियानिमित्तेष्वप्यनुष्ठानसाधनेष्वपि कुशेषु मुनिभिर्वत्सलत्वान्मृगस्नेहादभग्नकामाऽप्रतिहतेच्छा तेषां मुनीनामङ्का एव शय्यास्तासु च्युतानि नाभिनालानि यस्याः सा तथोक्ता मृगीणां प्रसूतिः संततिरनघाऽव्यसना कच्चित् अनपायिनी किमित्यर्थः । 'दुःखैनोव्यसनेष्वघम्' इति यादवः। ते हि व्यालभयाद्दशरात्रमङ्क एवं धारयन्ति ॥ ७ ॥
अन्वयः-क्रियानिमित्तेषु, अपि, कुशेषु, मुनिभिः, वत्सलत्वात् , अभग्नकामा, तदङ्कशय्याच्युतनाभिनाला, मृगीणाम् , प्रसूतिः, अनघा, कच्चित् ?
वाच्य०-अभग्नकामया, तदङ्कशय्याच्युतनाभिनालया, प्रसूत्या, अनघया, 'भूयते' कच्चित् ?
व्याख्या-क्रियायाः = अनुष्ठानस्य, निमित्तानि = साधनानि इति क्रियानिमित्तानि, तेषु क्रियानिमित्तेषु । अपि, कुशेषु दर्भेषु । मुनिभिः ऋषिभिः । वत्सलस्य भावः वत्सलत्वम् , तस्मात् वत्सलत्वात् मृगस्नेहात् । न नहि, भग्नः= नष्टः, कामः अभिलाषः, यस्याः सा अभग्नकामा । तेषाम् =मुनीनाम्, अङ्का:क्रा डस्थानानि इति तदङ्काः, तदङ्काः एव शय्याः शयनस्थल्यः, इति तदङ्कशय्याः, तदङ्कशय्यासु च्युतानि नाभिनालानि-तुन्दिकानालानि यस्याः सा, तदङ्कशय्याच्युतनाभिनाला ।, मृगीणाम् = हरिणीनाम् , प्रसूतिः = सन्ततिः, न= न हे विद्यन्ते अधानि-व्यसनानि यस्याः सा अनघा, दुःखरहितेत्यर्थः । कच्चित्-इति कामप्रवेदनेऽव्ययम् ।
समा०—क्रियायाः निमित्तानि क्रियानिमित्तानि, तेषु क्रियानिमित्तेषु । वत्सलस्य भावः वत्सलत्वम् , तस्मात् वत्सलत्वात् । भग्नः कामः यस्याः सा भग्नकामा, न भग्नकामा अभग्नकामा । तेषाम् अङ्काः तदङ्काः, तदङ्काः एव शय्याः तदङ्कशय्याः, तदङ्कशय्यासु च्युतानि तदङ्कशय्याच्युतानि, नामेः नालानि नाभिनालानि,