________________
रघुवंश महाकाव्ये
हिन्दी - हे तीक्ष्णबुद्धे ! कौत्स तुम्हारे गुरु ऋषिश्रेष्ठ वरतन्तुजी कुशलपूर्वक तो हैं : जिनसे तुमने सम्पूर्ण ज्ञान इस प्रकार प्राप्त किया है जिस प्रका सूर्य से मनुष्य प्रबोध ( जागरण ) प्राप्त करते हैं ॥ ४ ॥
कायेन वाचा मनसाऽपि शश्वद्यत्संभृतं वासववैर्यलोपि । आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥५॥ सब्जीविनी - कायेनोपवासादिकृच्चान्द्रायणादिना वाचा वेदपाठेन मनसा गायत्री जपादिना कायेन वाचा मनसापि करणेन वासवस्येन्द्रस्य धैर्य लुम्पतीति वासवधैर्यलोपि स्वपदापहारशङ्का जनकमित्यर्थः । यचपः शश्वद्सकृत् ' मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः । संभृत संचितं महर्षर्वरतन्तो स्त्रिविधं वाङ्मनः कायजं तत्तपोऽन्तरायैर्विध्नैरिन्द्रप्रेरिताप्सरः शापैर्व्ययं नाशं नापाद्यते कश्चित् न नीयते किम् ? 'कञ्चित्कामप्रवेदने' इत्यमरः || ५ ||
अन्वयः - कायेन, वाचा, मनसा, अपि वासवधैर्यलोपि, यत्, शश्वत् सम्भतम्, महर्षेः, त्रित्रिधम्, तत् तपः, अन्तरायैः, व्ययम्, न आपाद्यते कच्चित् ? वाच्य० -- वासव धैर्यलोपिना येन सम्भृतेन, 'भूयते' अन्तरायाः व्यय न आदयन्ति कश्चित् १
व्याख्या -- कायेन = शरीरेण चान्द्रायणादिव्रतेनेत्यर्थः । वाचा 1= वाण्या, वेदपाठेनेत्यर्थः । मनसा = हृदयेन, ध्यानादिनेत्यर्थः । अपिरिति समुच्चयेऽव्ययम् । वासवस्य = इन्द्रस्य, धैर्य = धृतिः इति वासवधेये, वासत्रधैर्ये लुम्पति विनाशयति इति वासव धैर्यलोपि । यत् = तपः । शश्वत् = सर्वदा । सम्भृतम् = सञ्चितम् | महान् = श्रेष्ठश्वासौ, ऋषिः = मुनिः इति महर्षिः, तस्य महर्षेः । तिस्रो विधः =प्रकाराः यस्य तत् त्रिविधम्, charकायमित्यर्थः । तत् तपः = तपश्चरणं । अन्तरायैः = विघ्नैः । व्ययम् =नाशम् । न = आपाद्यते = प्राप्यते ।
नैव ।
कश्चित् = किम् ?
समा० -- वासवस्य धैर्ये वासवधैर्ये, वासवधैर्य लुम्पति इति छोपि । महान् च अयौ ऋषिः महर्षिः, तस्य महर्षेः । तिस्रो विधाः यस्य तत्
त्रिविधम् ।
अभिः - यत्ते. गुरुर्मनसा, वाण्या तथा शरीरेणेन्द्रस्य धैर्यापहारकं तपोऽजयति तद्विघ्नैः क्षीयते न किमु ?