________________
पंचमः सर्गः
अप्यप्रणीमन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते । यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मे ॥४॥ सञ्जीविनी–हे कुशाग्रबुद्धे सूक्ष्मबुद्धे 'कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान्' इति हलायुधः । मन्त्रकृतां मन्त्रद्रष्ट णाम् 'सुकर्भशपमन्त्रः' इत्यादिना क्विप् । ऋषीणामग्रणीः श्रेष्ठस्ते तव गुरुः कुशल्यपि क्षेमवानिकम् । अपिः प्रश्ने । 'गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि' इत्यमरः । यतो यस्माद गुरोः सकाशात्त्वयाऽशेषं ज्ञानं लोकेनोष्णरश्मेः सूर्याच्चैतन्यं प्रबोध इव आप्तं स्वीकृतम् ॥ ४॥
अन्वया-कुशाग्रबुद्धे ! मन्त्रकृतां, ऋषीणां, अग्रणी:, ते, गुरुः, कुशली, अपि, यतः, त्वया, अशेषम् , ज्ञानम् , लोकेन उष्णरश्मः, चैतन्यम् इव, आप्तम् ।
वाच्य०-ऋषीणां अग्रण्या, ते गुरुणा, कुशलिना अपि, 'भूयते' । यतः खं ज्ञानं लोकः चैतन्यं, इव आप्तवान् ।
व्याख्या-कुशस्य-दर्भस्य, अग्रम् अग्रभागः इति कुशाग्रम् , कुशग्रम् इव यथा (तीक्ष्णा ) वुद्धि:-मतिः यस्य सः कुशाग्रबुद्धिः, तत्सम्बुद्धौ हे कुशाग्रबुद्धे ! मन्त्रान्कृतवन्तः इति मन्त्रकृतः, तेषाम् मन्त्रकृताम् । ऋषीणाम्= मुनीनाम् । अग्रम्=पुरः, नयति प्रापयति, इति अग्रणीः। ते-तव कौत्सस्य । गुरुः उपाध्यायः वरतन्तुः। कुशलम्=क्षेनम् अस्य अस्ति इति कुशली । अपिरिति प्रश्नेऽव्ययम् । यतः यस्मात् गुरोः सकाशादित्यर्थः। खया कौरसेन अशेषम् समग्रम्। ज्ञानम् अवबोधः, लोकेन=जनेन। उष्णाः तमाः, रश्मयः किरणाः यस्य सः उष्णरश्मि:, सूर्य इत्यर्थः, तस्म त् उष्णरश्मेः। चैतन्यम= प्रबोधः । इव यथा । आप्त-गृहीतम् । ___ समा०—कुशस्य अमं कुशाग्रम् , कुशाग्रम् इव बुद्धिः शस्य स: कुशाग्रबुद्धिः, तत्सम्बुद्धौ हे कुशाग्रबुद्धे ! मन्त्रान्कृतवन्त इति मन्त्रकृतः, तेपाम् मन्त्रकताम् । अग्रम् नयति इति अग्रणी। कुशलम् अस्य अस्ति इति कुशली । उष्णाः रश्मयः यस्य स उष्णरश्मिः, तस्मात् उष्णरश्मेः।
अभि०-हे तीक्ष्णमते ! कौत्स ! महर्षिवर्यस्ते गुरुर्वरतन्तुः कुरालेन सह वर्तते किमु ? यस्मात्त्वया सकलं ज्ञानं तथैव लब्धं यथा लोको रवेरालोकेन चैतन्यं गृह्णाति ।