________________
रघुवंशमहाकाव्ये
मरः। विष्टरमाजमासनगतम् उपविष्टमित्यर्थः । विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्' इत्यमरः । 'वृक्षासनयोर्विष्टरः' इति निपातः । तं तपोधनं विविवद्विध्यहम् यथाशास्त्रमित्यर्थः । तदहम्' इति वतिप्रत्ययः । अर्चयित्वाऽऽरात्समीपे 'आरादूरसमीपयोः' इत्यमरः । कृताञ्जलिः सन्निति वश्यमाणप्रकारेणोवाच ॥३॥ ___ अन्वयः-विधिज्ञः, मानधनाग्रयायी, कृत्यवित्, विशां , पतिः, विष्टरभाजं, तं, तपोधनं, विधिवत् , अर्चयित्वा, आरात् , कृताञ्जलिः 'सन्' इति, उवाच ।
वाच्य०—विधिज्ञेन, मानधनाग्रयायिना, कृत्यविदा, विशाम , पत्या, कृताअलिना, 'सता' ऊचे। __ व्याख्या-विधिम् शास्त्रम् , जानाति-वेत्ति, इति विधिज्ञः । मानः चित्तसमुन्नतिः एव धनम् वितम् येषां ते मानधनाः, अग्रे-पुरः, याति गच्छति इति अग्रयायी, मानधनानाम् अग्रयायी इति मानधनाग्रयायी । कृत्यम् कायम् वेत्ति-जानाति, इति कृत्यवित् । विशाम्-मनुजानाम् पतिः स्वामी। विष्टरम् आसनम् , भजति सेवते, इति विष्टरभाक, तं विष्टरमाजम् , उपविष्टम् इत्यर्थः । तम्-पूर्वोक्तं । तपः तपश्चर्या, एव, धनम्=वित्तम्, यस्य सः तपोधनः, तं तपोधनम् , कौत्सम् । विधिवत् यथाशास्त्रम् । अर्चयित्वा सम्पूज्य । आरात्=समीपे। कृतः=विहितः, बद्ध इति यावत् , अलि:= हस्तसंपुटः, येन सः कृताञ्जलिः, 'सन्'। इति इत्थम्, वक्ष्यमाणप्रकारेण । उवाच-कथयामास ॥
समा०—विधम् जानातीति विधिज्ञः । मानः एव धनं येषां ते मानधनाः, अग्रे याति इति अग्रयायी, मानधनानाम् अग्रयायी मानधनाप्रयायी। कृत्यं वेत्ति इति कृत्यवित् । विष्टरं भजति इति विष्टरभाक , तं विष्टरमाजम् । तपः एव धनम् यस्य सः तपोधनः, तं तपोधनम् । कृतः अञ्जलिः येन सः कृताञ्जलिः।
अभि०-शास्त्रविधिज्ञो रघुस्तं तपस्विनं कौत्सं शास्त्रोक्तविधिना संपूज्यासन उपवेश्य स्वयं संयोजितकरयुगलः सन्नुवाच ।
हिन्दी-शास्त्रविधि को जाननेवाले मनस्वी रघुने तपस्वी कौत्स की शास्त्रोक्त-विधि से पूजा की, और आसन पर बैठाकर उनके सम्मुख हाथ जोड़कर इस प्रकार बोले ॥३॥