________________
पञ्चमः सर्गः
अन्वयः-अनर्घशीलः, यशसा, प्रकाशः, आतिथ्यः, सः, वीतहिरण्मयत्वात् मृन्मये, पात्रे, अर्ध्यम्, निधाय, श्रुतप्रकाशम् , अतिथिम्, प्रत्युजगाम ।।
वाच्य०-अनर्घशीलेन, प्रकाशेन, आतिथेयेन, तेन, श्रुतप्रकाशः, अतिथिः, प्रत्युजग्मे ।
व्याख्या न विद्यते अर्घम्-मूल्यम् यस्य तत् अनर्घम्, अनघे शीलम् - स्वभावः, यस्य असौ अनर्घशीलः। यशसा कीर्त्या, प्रकाश: प्रसिद्धः। अतिथिषु अभ्यागतेषु, साधुः आतिथेयः। सः रघुः। हिरण्यस्य-सुवर्णस्य विकारः हिरण्मयम्, वीतम्-गतम् हिरण्मयम् यस्मात् सः वीतहिरण्मयः, वीतहिरण्मयस्य भावः वीतहिरण्मयत्वम्, तस्मात् वीतहिरण्मयत्वात् । मृदः-मृत्तिकायाः, विकारः मृन्मयम् , तस्मिन् मृन्मये। पात्रेभाजने । अर्घाय-पूजार्थ इदं अर्घ्यम् । निधाय संस्थाप्य । श्रुतेन शास्त्रेण, प्रकाशः प्रसिद्धः, इति श्रुतप्रकाशः, तं श्रुतप्रकाशं । अतिथि अभ्यागतं । प्रत्युजगाम-प्रत्युद्ययौ। ___ समा०-न विद्यते अर्घः यस्य तत् अनर्प, अनर्धम् शीलं यस्य स: अनर्घशीलः। अतिथिषु साधुः आतिथेयः। हिरण्यस्य विकारः हिरण्मयम, वीतम् हिरण्मयम् यस्मात् सः वीतहिरण्मयः, वीतहिरण्मयस्य भावः वीतहिरण्मयत्वम् , तस्मात् वीतहिरण्मयत्वात् । मृदः विकारः मृन्मयम् , तस्मिन् मृन्मये । अर्घाय इदम अय॑म । अतेन प्रकाशः श्रुतप्रकाशः, तं श्रुतप्रकाशम्।
अभि०-असाधारणस्वभावो यशस्वी तथाऽतिथिसेवाऽभिज्ञो रघुः सुवर्णपात्राभावेन मृत्पात्र एवोपहारसामनीं निधाय प्रसिद्धशास्त्रज्ञस्य कौत्सस्य सम्मुखमुपस्थितोऽभवत् ।
हिन्दी-असाधारण स्वभाववाले, यशस्वी तथा अतिथि सेवा में निपुण राजा रघु सोने के पात्रों के न रहने से मिट्टी के पात्र में ही अर्घ्य द्रव्य लेकर कौत्स के सम्मुख उपस्थित हुए ॥ २॥
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी। विशांपतिर्विष्टरमाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥३॥
सञ्जीविनी--विधिज्ञः शास्त्रज्ञः अकरणे प्रत्यवायभीरुरित्यर्थः । मानधना. नाभग्रयाय्यग्रेसरः। अपयशोभीरुरित्यर्थः। कृत्यवित्कार्यशः आगमनप्रयोजनमवश्यं प्रष्टव्यमिति कृत्यवित् । विशांपतिर्मनुजेश्वरः 'द्वौ विशौ वैश्यमनुजौ' इत्य