________________
रघुवंशमहाकाव्ये उपात्ताः गृहीताः, विद्याः-चतुर्दशविधाः येन सः उपात्तविद्यः। वरतन्तो:तन्नामकगुरोः, शिष्यः = छात्रः वरतन्तुधियः। कौत्स: कौत्सनामा । अर्थः= प्रयोजनम् अस्य अस्ति इति अर्थी, गुरोः उपाध्यायस्य, दक्षिणा अध्ययनाद्यन्ते देयं द्रव्यं गुरुदक्षिणा, गुरुदक्षिणायाः अर्थो गुरुदक्षिणार्थी 'मन्' प्रपेदे-प्राप।
समा०-विश्वं जयति इति विश्वजित् , तस्मिन् विश्वजिति । कोशानाम् जातम् कोशजातम् , निःशेषम् विश्राणितम् कोशजातम् येन सः निःशेषविश्राणितकोशजातः, तम् निःशेषविश्राणितकोशजातम् । तितेः ईशः क्षितीशः, तम् क्षितीशम् । उपात्ताः विद्याः येन सः उपात्तविद्यः । वरतन्तोः शिष्यः वरतन्तुशिध्यः। अर्थः अस्य अस्ति इति अर्थी; गुरोः दक्षिणा गुरुदक्षिणा, गुरुदक्षिणायाः अर्थी गुरुदक्षिणार्थी ।
अभि०- यदा रघुविधजिन्नामो यज्ञे समस्तमपि कोशमणिभ्यो ददौ तदा वरतन्तूपाध्यायात्सकला अपि विद्याः अपीय तदर्थ दक्षिणाया याचको भूत्वा कौत्सस्त रघुमुपागमत् ।।
हिन्दी-जब कि राजा रघुने विश्वजित् नामक यज्ञ में अपना सारा खजाना दक्षिणा के रूप में दे डाला तब वरतन्तु महर्षि का शिष्य कौत्स सम्पूण विद्याय पढ़कर गुरुदक्षिणा देने के लिये द्रव्य प्राप्त करने की इच्छा से रधुके पास याचक बनकर आया ॥१॥
स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायायमनर्घशीलः । श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगाभातिथिमातिथेयः ॥२॥
सञ्जीविनी-अनर्घशीलोऽमूल्यस्वभावः असाधारणस्वभाव इत्यर्थः । 'मूल्ये पूजाविवावर्षः' इति 'शीलं स्वभावे सत्ते' इति चामरशाश्वतो! यशसा कीया प्रकाशत इति प्रकाशः, पचाद्यच् । अतिथिषु साधुरातिथेयः ‘पथ्यतिथिवसतिस्वपतेढञ्' इति टुञ्। स रघुः हिरण्यस्य विकासे हिरण्मयम् 'दाण्डिनायन' इत्यादिसूत्रेण निपातः। वीतहिरण्मयत्वादपगततुवर्णपात्रत्वात् यज्ञस्य सर्वस्वदक्षिणाकत्वादिति भावः । मृन्मये मृदेकारे पात्रे अर्थमिदमय॑म् ‘पादार्घाभ्यां च' इति यत् । पूजार्थे द्रव्यं निधाय श्रुतेन शस्त्रेण प्रकाशं प्रसिद्धम् । श्रूयत इति श्रुतं वेदशास्त्रम् 'श्रुतं शास्त्रावधृतयोः' इत्यमरः। अतिथिमभ्यागतम् कौत्सम् 'अतिथिर्ना गृहागते' इत्यमरः । प्रत्युज्जगाम ॥२॥