________________
महाकविकालिदास कृत श्री रघुवंश महाकाव्य
पंचम सर्ग
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिणार्थी कौरसः प्रपेदे वरतन्तुशिष्यः॥१॥
सञ्जीविनी–विश्वजिति विश्वजिन्नाम्न्यध्वरे यज्ञे 'यज्ञः सवोऽध्वरो यागः इत्यमरः । निःशेषं विभाणितं दत्तम् 'श्रणु दारे' चुरादिः । कोशानामर्थराशीनां जातं समूहो येन तं तथोकम् , 'कोशोऽस्त्री कुड्मले खड्गपिधानेऽौँ दिव्ययोः' इत्यमरः। 'जातं बनिसमूहयोः' इति शाश्वतः । एतेन कौत्सस्यानवसरप्रापि। सूचयति । तं क्षितीशं रघुमुपाचविद्यो लन्धविद्यो वरतन्तोः शिष्य कौत्सः । 'ऋष्यन्धकवृष्णिकुरुभ्यश्र' इत्यण , इसोऽपवादः। गुरुदक्षिणार्थी 'पुष्करादिभ्यो देशे' इत्यत्र 'अर्थाच्चासंनिहिते' 'तदन्ताच' इतीनिः। अप्रत्याख्येय इति भावः । प्रपेदे प्राप। अस्मिन्सर्गे वृत्तमुपजातिः। तल्लक्षणं तु-'स्यादिन्द्रवज्रा यदि तौ जगी गः । उपेन्द्रवजा बतजास्ततो गौ। अनन्तरोदीरितलाममाजी पादौ यदीयावुपजातयस्ताः ' इति ॥१॥
अन्वयः-विश्वबिति, अधरे, निःशेषविश्राणितकोशजातम् तम्, क्षिती. शम् , आत्तविद्यः, वरतन्तुशिष्यः, कौत्सः, गुरुदक्षिणार्थी, 'सन्' प्रपेदे ।
वाच्य-निःशेषवित्राणितकोशजातः, सः, दितीशः, उपात्तविद्येन, बर. वन्तुशिष्येण, कौरसेन, गुरुदक्षिणार्थिना, प्रपेदे। ___ व्याख्या-विश्वम् जगत् , जयति अभिभवति इति विश्वजित् , तस्मित विश्वजिति, अधरे-यशे, विश्वजिनामके यज्ञे इत्यर्थः । कोशानाम्=निधीनाम् जातम् समूहः इति कोशजातम् , निःशेषम् समग्रम् , विश्राणितं अपितं कोशजातम् येन सः निःशेषविभाणितकोशजातः, तं तथोक्तम् । तम्-पूर्वोत्रम् क्षितः पृथिव्याः, ईशः स्वामी नितीशः, तं क्षितीशम् रानानं रघुम् इत्यर्थः