________________
रघुवंशमहाकाव्ये मति से, विशेष पादर सत्कार द्वारा, यज्ञ में पाए हुए पराजित राजामों का दुःख शमन किया तथा, उनके अन्तःपुर चिरकाल से विरहित हैं इस दृष्टि से उन्हें स्वनगरगमन की अनुमति प्रदान की ॥७॥
ते रेखाध्वजकुलिशातपत्रचिह्न, सम्राजश्चरणयुगंप्रसादलभ्यम् । प्रस्थानप्रणतिभिरङ्गुलीषु चक्रु
मौलिस्रक्च्युतमकरन्दरेणुगौरम् ।।८।। सञ्जीविनी-ते राजानः रेखा एव ध्वजाश्च कुलिशानि चातपत्राणि च । ध्वजाद्या काररेखा इत्यर्थः, तानि चिह्नानि यस्य तत्तथोक्तम् । प्रसादेनैव लभ्यं प्रसादल भ्यम् । सम्राजः सार्वभौमस्य रघोश्चरणयुगं प्रस्थाने प्रयाणसमये याः प्रणतयो नमस्कारास्ताभिः करणः अंगुलीषु मौलिषु केशबन्धेषु याः सजो माल्यानि ताभ्यः च्युतः मकरन्दैः पुष्परसैः ‘मकरन्दः पुष्परसः' इत्यमरः । रेणुभिः परागैः 'परागः सुमनोरजः' इत्यमरः । गौरं गौरवर्ण चक्र: ।।८८॥
अन्वयः-ते रेखाध्वजकुलिशातपत्रचिह्नम्, प्रसादलभ्यम्, सम्राजः, चरणयुगम्, प्रस्थान रणतिभिः, अंगुलीषु, मौलिस्रक्च्युतमकरन्दरेणुगोरम्, चक्रुः ।।
वाच्य०-ौः सम्राज: चरणयुगम् मौलिस्रक्च्युतमकरन्दरेणुगौरम् चक्रे ।
व्याख्या-तेराजानः, ध्वजश्च = पताका च, कुलिशञ्च = वज्रञ्च "वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः" इत्यमरः। प्रातपात्त्रायत इत्यात. पत्रम् = छत्रम् च ध्वज कुलिशातपत्राणि, रेखा: = लेखा एव ध्वजकुलिशातप. त्राणि इति रेखाध्वज कुलिशातपत्रारिण, तानि चिह्नानि लक्षणानि यस्य तत्तथोतम् । प्रसादेन = प्रसन्नतयव "प्रसादस्तु प्रसन्नता" इत्यमरः । लभ्यम्प्राप्यम् इति प्रसादलभ्यम् । सम्यग् राजतेऽसौ सम्राट्, तस्य सम्राजः = सार्वभौपस्य रघोः । चरणयोः पादयोर्युगं युगलम् । प्रस्थाने प्रस्थान काले, याः प्रणतयो नमस्काराः प्रस्थानप्रणतयः, ताभिः । अङ्गुलीषु = पादाङ्गुलीषु । मकरन्दश्चपुष्परसश्च रेणवश्च = परागाश्च मकरन्दरेणवः, मौलिषु = मस्तकेषु, स्रजः= माला इति मौलिस्रजः, ताभ्यश्क्युताः पृथग्भूता-इति मौलिस्रकच्युताः, मौलिस्रवच्युता मकरन्दरेणवः इति मौलिस्रक्च्युतमकरन्दरेणवः, तैः गौरं गौरवर्णम्, चक्रुः = कृतवन्तः।