________________
चतुर्थः सर्गः
७७
त्सुका उत्कण्ठिता अवरोधा अन्तःपुराङ्गना येषां तान् । राज्ञोऽपत्यानि राजन्याः क्षत्रियास्तान् 'राजश्वशुराद्यत्' इत्यपत्यार्थे यत्प्रत्ययः । 'मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्' इत्यमरः । स्वपुरं प्रति निवृत्तये प्रतिगमनायानुमेनेऽनुज्ञातवान् । प्रहर्षिणीवृत्तमेतत् । तदुक्तम्-'नौ नौ गस्त्रिदशयतिः प्रहर्षि. णीयम्' इति ।। ८७॥
अन्वयः- काकुत्स्थः, सत्रान्ते, सचिवसखः, सन्, गुर्वीभिः, पुरस्क्रियाभिः, शमितपराजयव्यलीकान्, चिरविरहोत्सुकावरोधान्, राजन्यान्, स्वपुरनिवृत्तये, अनुमेने ।
वाच्य--काकुररथेन, सचिवसखेन, सता, शमितपराज्यव्यलीकाः, चिरविरहोत्सुकावरोधाः, राजन्याः, अनुमेनिरे ।
व्याख्या-ककुत्स्थस्य गोत्रापत्य पुमान् काकुत्स्थ: ककुत्स्थवंश्यो रघुः । सस्य = मखस्यान्तस्तस्मिन्-यज्ञान्ते । सचिवानाममात्यानां सखा मित्रं सचिवसख:-प्रमात्यसहाय: सन् । गुर्वीभिः महतीभिः, पुरस्क्रियाभिः पूजाभिः । शमितं दूरीकृतं, पराजयेन = पराभवेन, व्यलीकं दु खं येषां ते समितपराजय. व्यलीकास्तान् । चिरं विरहश्चिरविरहः-चिरकालवियोगः, तेन उत्सुकः= उत्कण्ठितः, अवरोधः-अन्त.पुरवर्गः येषां ते चिरविरहोत्सुकावरोषास्तान्, राजन्यान्राज्ञोऽपत्यानि राजन्याः क्षत्रियास्तान् 'राजश्वशुराद्यत्' इति यत् । स्वस्य पुराणि स्वपुराणि, तानि प्रति निवृत्तिः स्वपुरनिवृत्तिः, तस्यै-स्वनगरगमनाय, अनुमेने = अनुज्ञातवान् ।
समा०-सत्रस्य मन्तः सत्रान्तः, तस्मिन् सत्रान्ते । सचिवानां सखा सचिव सखः । पराजयेन व्यलोकं येषां ते पराजयव्यलीकाः, तान् पराजयव्यलीकान् । चिरं विरहः चिरविरहः, चिरविरहेण उत्सुक: अवरोधः येषां ते चिरविरहोत्सु. कावरोधाः, तान् चिरविरहोत्सुकावरोधान् । स्वस्य पुरं स्वपुरं, स्वपुरं प्रत निवृत्तिः स्वपुरनिवृत्तिः, तस्यै स्वपुरनिवृत्तये ।
अभि--रघुः विश्वजिन्नामकयज्ञानन्तरम्, अमात्यानुमत्या पराजयखिन्नान् विरहितान्तःपुरान् राज्ञः पुरस्कारादिना विशेषसंमानितान् कृत्वा स्वनगरगमनं प्रति अनुमति ददी।
हिन्दी-रघु ने विश्वजित् नामक यज्ञ करने के अनन्तर प्रमात्यों की मनु