________________
७६
रघुवंशमहाकाव्ये अन्वयः-स: सर्वस्वदक्षिणम्, विश्वजितम्, यज्ञम्, आजह, हि, सताम्, वारिमुचाम्, इव, पादानम् , विसर्गाय भवतीति शेषः ।
वाच्य--तेन, सर्वस्वदक्षिणः विश्वजित्, यज्ञः, पाजते, प्रादानेन, भूयते ।
व्याख्या--सः- रघुः । सर्व वं = सकलं दक्षिणा यम्य तादृशम् । विश्वजितम् = विश्वजिन्नामकम् , यज्ञम् = मतम् । प्राजहे-कृतवान् । हि = यतः । सताम् =सजनानाम् । वारि-जलं मुञ्चन्तीति वारिमुचो मेघास्तेषाम् । इव = यथा । अादानम् == ग्रहणम् । विसर्गायत्यागाय । भवतीति शेषः।
समा०-- सर्वञ्च तत् स्वञ्च सर्वस्वम्, सर्वस्वं दक्षिणा यस्य सः सर्वस्वदक्षिणः, तं सर्वस्वदक्षिणम् ! वारि मुञ्चन्तीति वारिमुचः, तेषां वारिमुचाम् ।
अभि-दिग्विजयानन्तरं रघुः विश्वजिन्नामकं यज्ञं कर्तमारेभे । यतः यथा मेघाः समुद्राजलमादाय तद्वर्षरणेन विश्वहितं कुर्वन्ति तथैव सजनानामपि द्रव्यसञ्चयः परहितायेव भवति ।
हिन्दी-दिग्विजय के पश्चात् रघु ने विश्वजिन् नामक यज्ञ प्रारम्भ किया जिसमें सम्पूर्ण धन ही दक्षिण! के रूप में दिया जाता था। जैसे मेघ समुद्र से जल ग्रहण करके वृष्टि द्वारा जनता का लाभ करते हैं उसी प्रकार सजनों का द्रव्यसञ्चय भी परोपकार के लिये ही होता है ।। ८६ ।। सत्रान्ते सचिवलखः पुरस्क्रियाभि
[/भिः शमितपराजयव्यलीकान् । काकुत्स्थश्चिरविरहोत्सुकावरोधान
राजन्यारव पुरनिवृत्तयेऽनुमेने ।। ८७ ॥ सब्जीषिनी -. काकुस्थो रघु: मान्ने यज्ञान्ते। 'सत्रमाच्छादने यजे सदादाने धनेपि च' इत्यमरः । सचिवानामनात्यानां सखेति सचिवसख: तम् । 'सचिवो भृतकेऽमात्ये' इत हैमः । तेपामत्यन्तानुपरणद्योतनाथ राज्ञः सखित्व. व्यपदेशः । 'राजाहःसखिभ्यष्टन्' । गुर्वी भिमहतीभिः । 'गुरुमहत्याङ्गिरसे पित्रादौ धर्मदेशके' इति हैम:। पुरस्क्रियाभि: पूजाभिः शमितं पराजयेन व्यलीकं दुःखं वैलक्ष्यं वा येषां तान् । 'दु:खे वैलक्ष्ये व्यलीकम्' इति यादवः । चिरविरहेणो