________________
७५
चतुर्थः सर्गः इति जित्वा दिशो जिष्णुर्यवर्तत रथोबतम् ।
रजो विश्रामयनराज्ञां छत्रशून्येषु मौलिषु ॥८॥ सब्जीविनी-जिष्णुर्जयशीलः । “ग्लाजिस्थश्च स्नुः" इति स्नुप्रत्ययः । स रघुरितीत्थं दिशो जित्वा रथैरुद्धतं रजश्छत्रशून्येषु । रपोरेकच्छत्रकत्वादिति भावः । राज्ञां मौलिषु किरीटेषु । 'मौलिः किरीटे धम्मिल्ले चूडाकङ्केलिमूर्धजे' इति हैमः । विश्रामयन् संक्रामयन्नित्यर्थः । न्यवर्तत निवृत्तः ॥५॥
अन्वया-जिष्णुः, इति, दिशः, जित्वा, रथोद्धतम्, रजः छत्रशून्येषु, राज्ञाम्, मौलिषु, विश्रामयन्, न्यवर्तत ।
वाच्या--जिष्णुना, तेन, इति, दिशः, जित्वा, रथोद्धतम्, रजः, मौलिषु, विश्रामयता, न्यवृत्यत ।
व्याख्या-जिष्णः जयनशीलः । इति एवम् । दिश: काष्ठाः । जित्वा - विजयीकृत्य । रथेभ्य उद्घतम् रथोद्धतं, तत्-स्यन्दनोत्थापितम, रजः धूलिम् । छत्र:=प्रातपत्रः, शून्यानि = रहितानि छत्रशून्यानि, तेषु । राज्ञाम् = नृपाणाम् । मौलिषु-मस्त केषु, विश्रामयन् =सं कामयन्, न्यवर्तत = निववृते ।
समा०-रथेन उद्धतं रथोद्धतम्, तत् रथोद्धतम् । छत्रेण शून्याः छत्रशून्याः, तेषु छत्रशून्येषु ।
अभि.-एवं रघुः सर्वा अपि दिशो विजित्य पराजितेषु छत्ररहितराजशिरःसु निजसेनोत्यापितां धूलि विश्रामयन् दिग्विजयानिवृत्तः ।
हिन्दी-इस प्रकार सम्पूर्ण दिशामों को जीत कर रघु पराजित राजापों के छत्ररहित सिरों पर अपनी सेना की धूलि गिराते हुए दिग्विजय से लौटे ॥५॥
स विश्वजितमाजढे यज्ञ सर्वस्वदक्षिणाम् ।।
आदानं हि विसर्गाय सतां वारिमुचामिव ॥८६॥ सञ्जीविनी-स: रघुः सर्वस्वं दक्षिणा यस्य यस्मिन्वा तं सर्वस्वदक्षिणम् । 'विश्वजित्सर्वस्वदक्षिणः' इति श्रुतेः । विश्वजितं माम यज्ञमाजहें। कृतवानित्यर्थः । युक्तं चैतदित्याह - सतां साधूनाम । वारिमुचां मेघानामिव । मादान। मर्जनं विसर्गाय त्यागाय हि । पात्रविनियोगायेत्यर्थः ॥ ८६ ॥