________________
७४
रघुवंशमहाकाव्ये कान्तः प्रत्याखण्डलविक्रमः, तम् प्रत्याखण्डलविक्रमम् । भिन्नाः कटाः येषां ते भिन्नकटाः, तैः भिन्नकटः।।
अभि-कामरूपदेशाधिपतिः इन्द्राधिकपराक्रमम् रघुम् तान् गजानुपायनीकृत्य शरणं गतः यः पूर्वम् अन्यशत्रून् जितवान् ।
हिन्दी-कामरूपदेश का राजा इन्द्र से भी अधिक पराक्रम वाले रघु के मागे उन हाथियों को भेंट में लेकर उपस्थित हुमा जिनसे शत्रुओं को जीता करता था ॥३॥
___ कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।
रत्नपुष्पोपहारेण छायामानाच पादयोः ॥४॥ सञ्जीविनी-कामरूपेश्वरो हेमपीठस्याधिदेवतां तस्य रघोः पादयोश्छायां कनकमयपादपीठव्यापिनी कान्तिं रत्नान्येव पुष्पाणि तेषामुपहारेण समर्पणेनानर्चार्चयामास ॥४॥
अन्वयः-कामरूपेश्वरः, हेमपीठाधिदेवताम्, तस्य, पादयोः, छायाम्, रत्वपुष्पोपहारेण, प्रानर्च ।
वाच्य०-कामरूपेश्वरेण,हेमपीठाधिदेवता, तस्य, पादयोः, छाया, रत्नपुष्पोपहारेण, मानर्चे।
व्याख्या--कामरूपाणाम् तन्नामकदेशविशेषाणाम् , ईश्वरः राजा। हेम्नः = सुवर्णस्य, पीठमासन मिति हेमपीठम्, तस्याधिदेवता अधिष्ठात्री देवी हेमपीठाधिदेवता, ताम् । तस्य =रघोः । पादयोः- चरणयोः। छायाम् कांतिम् । रत्नान्येव हीरकादीन्येव पुष्पाणि रत्नपुष्पाणि, तेषामुपहार:-उपायनम् । रत्नपुष्पोपहारस्तेन । मानर्च=पूजयामास ।
समा०-कामरूपाणामीश्वरः कामरूपेश्वरः । हेम्नः पीठं हेमपीठम् , हेमपीठस्य अधिदेवता हेमपीठाधिदेवता, तां हेमपीठाधिदेवताम् । रत्नान्येव पुष्पाणि रत्नपुष्पाणि, रत्नपुष्पाणामुपहारः रत्नपुष्पोपहारः, तेन रत्नपुष्पोपहारेण ।
प्रभि-कामरूपाधिपतिः सुवर्णसिंहासनाधिष्ठात्री रघुपादच्छायां रत्नरूपः पुष्पैः पूजयामास।
हिन्दी-कामरूप देश के राजा ने स्वर्णसिंहासन की अधिष्ठात्री रघु की पादकान्ति को रत्नरूपी पुष्पों से पूजा ॥४॥