________________
चतुर्थः सर्गः
समा० ० - ध्वजाश्च कुलिशानि च प्रातपत्राणि च ध्वजकुलिशातपत्राणि, रेखा एवं ध्वजकुलिशातपत्राणि रेखाध्वजकुलिशातपत्राणि तानि चिह्नानि यस्य तत् रेखाध्वजकुलिशातपत्रचिह्नम्, तत् रेखाध्वजकुलिशातपत्रचिह्नम् । प्रसादेन लभ्यं प्रसादलभ्यम्, तत् प्रसादलभ्यम् । चरणयोर्युगं चरणयुगम्, तत् चरणयुगम् । प्रस्थाने प्ररणतयः प्रस्थानप्ररणतयः, ताभिः प्रस्थानप्ररणतिभिः । मौलिषुस्रजः मौलिस्रजः, मौलि स्रग्भ्यश्च्युताः मौलिस्रक्च्युताः, मकरन्दाश्च रेणवश्च मकरन्दरेणवः, मौलिस्रक्च्युताश्च ते मकरन्द रेणवश्च मौलिस्रक्च्युतमकरन्दरेणवः, मौलिस्रक्च्युतमकरन्दरेणुभिः गौरं मौलिसक्च्युतमकरन्दरेणुगौरम्, तत् मौलिस्रक्च्युतमकरन्द रेणु गौरम् |
७६
अभि० - यज्ञावसाने लब्धगृहगमनानुमतयो राजानः प्रस्थानकालिकप्रणतिभिः, रघोश्चरणयुगलं शिरोभिः पस्पृशुः, तदा च तेषां मुकुटस्थमालाभ्यो निपतितैः पुष्परसैः परागैश्च रघुपादाङ्गुल्यो गौरवर्णाः सञ्जाताः ।
हिन्दी - यज्ञ की समाप्ति पर अपने अपने नगरों में जाने की प्रनुमति प्राप्त करके राजा लोग प्रस्थानकालिक नमस्कारों के द्वारा रघु के चरणकमलों को अपने मस्तकों से स्पर्श करने लगे, जिससे उनके मुकुटों की मालाभों से गिरने वाले पुष्परस तथा पराग ने रघु की पादाङ्गुलियों को गौर बना दिया ||
इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां छात्रोपयोगिनीव्याख्यायां रघुवंशे महाकाव्ये रघुदिग्विजयो नाम चतुर्थः सर्गः ।