________________
रघुवंशमहाकाव्ये स्तम्भत्वं, प्राप्त:=गतः। कालागुरूणां द्रुमाः कालगुरुद्रुमाः, तैः = कालागुरुवृक्षः । सह = साधम् । चकम्पे = कम्पितवान् ।
समा०–तीर्णा लौहित्या येन सः तीर्णलौहित्यः, तस्मिन् तीर्णलौहित्ये । माग्ज्योतिषाणामीश्वरः प्राग्ज्योतिषेश्वरः । तस्य गजाः तद्गजाः, तद्गजाघामालानानि तद्गजालानानि, तद्गजालानानां भावः तद् गजालानता, तां तद्गजालानताम् । कालाश्च ते अगुरुद्रुमाश्च कालागुरुद्रुमाः, रोः कालागुरुद्रुमैः ।
अभि०-हिमाद्रिविजयानन्तरं लोहित्याख्यानदीमुत्तीर्णन रघुणा कामरूपाधिपतिहृदये तथैव कम्पः कृतः यथा तद् गजैः स्वबन्धनस्तम्भतां नीतेषु कालागुरुद्रुमेषु।
हिन्दी-हिमालयविजय के पश्चात्, लौहित्य नामक नदी को पार करके रघुने कामरूपाधिपति के हृदय में वैसा ही कम्प उत्पन्न किया जैसा कि उसके गजों ने अपने बन्धन स्तम्भभूत कालागुरु वृक्षों में ॥८१|
न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् ।
रथवमरजोऽप्यस्य कुत एव पताकिनी १८२॥ सब्जीविनी-स प्राग्ज्योतिषेश्वरो रुद्धार्कभावृतसूर्यम् । अधारावर्ष च तद् दुर्दिनं च धारावृष्टि विना दुर्दिनीभूतम् । अस्य रघो रथवमरजोऽपि न प्रसेहे । पताकिनी सेनां तु कुत एव प्रसेहे । न कुतोऽपीत्यर्थः ।।२।। .. अन्वय-सः, रुदाकम्, अधारावर्षदुर्दिनम्, अस्य, रथवमरजः अपि, न, प्रसे है, पताकिनीम्, तु, कुतः, एव ।
वाच्य-तेन प्रस्य रथवमरजः अपि न प्रसेहे, पताकिनी तु कुतः।
व्याख्या-स: कामरूपदेशाधिपतिः । रुद्धः = प्रतिरुद्धः प्रावृत इति यावत्, पर्कः = सूर्यः येन तत् रुद्धार्कम् । न विद्यते धारावर्ष=धारावृष्टिः यस्मिन् तत् प्रधारावण, तादृशं यत् दुर्दिनम् =मेघाच्छन्न दिवसम् इति अधारावर्णदुर्दिचम, 'मेघच्छन्नेऽह्नि दुर्दिनम्' इत्यमरः । अस्य = रघोः । रथान = स्यन्दनानां, धर्ममार्गः रथवर्म, तत्र विद्यमानं रजः, तत् । न नैव, प्रसेहे - सोढवान् । पताका विद्यतेऽस्याः पताकिनी सेना, तामू तु कुत एव प्रसेहे, न कुतोऽपीत्यर्थः ।