________________
चतुर्थः सर्गः प्रक्षोभ्यम् = प्रभृष्यम्, स्थिरमित्यर्थः। यशसां राशियंशोराशिस्तम् = कीतिसमूहम् । निवेश्य = निधाय । पुलस्त्यस्य गोत्रापत्यं पुमान् पौलस्त्यः = रावणः, तेन तुलितः = चालितः इति पौलस्त्यतुलितः, तस्य । पद्रेः- पर्वतस्य कैलासस्य । ह्रियम् = लज्जाम् । प्रादधानः = जनयन्निव । अवरोह = प्रवततार।
समा०-क्षोभितुं योग्यः क्षोम्यः, न क्षोभ्यः प्रक्षोभ्यः, तम् प्रशोम्यम् । यशस राशिः यशोराशिः, तं यशोराशिम् । पुलस्त्यस्य गोत्रापत्यं पुमान् पोलस्त्यः, पौलस्त्येन तुलित: पौलस्त्यतुलितः, तस्य पौलस्त्यतुलितस्य ।
अभि.- स रघुः तत्र हिमाद्री स्थिरं यशोराशि संस्थाप्य रावणोत्थापितः पराजितोऽयम् इति निन्दाविचारेण कैलाससमीपमगत्वैव प्रतिनिवृत्तः । तेन च ह्रीरिवोत्पादिता कैलासस्य ।
हिन्दी--रघु हिमालय पर्वत पर अपने स्थिर यश को स्थापित करके 'रावण से उठाया हुप्रा यह पर्वत ते पराजित है' इस निन्दा के विचार से कैलास पर न जाकर उसे लज्जित करते हुए वहां से नीचे उतर पड़े ॥२०॥
चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः ।
तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ॥८॥ सब्जीविनी-तस्मिन्रघी ती लोहित्या नाम नदी येन तस्मिस्तीर्ण. लौहित्ये सति । प्राग्ज्योतिषाणां कामरूपाणां जनपदानामीश्वरस्तस्य रघोगजानामालानतां गजबन्धनस्तम्भतां प्राप्तौः कालागुरुनुमैः कृष्णागुरुवृक्षः सह चकम्पे कम्पितवान् ।।१॥
अन्वयः-तस्मिन्, तीर्णलौ हत्ये, सति, प्राग्ज्योतिषेश्वरः, तद्गजालानता प्राप्तः, कालागुरुद्रुमैः सह चकम्पे ।
वाच्य-प्राग्ज्योतिषेश्वरेण चकम्पे ।
व्याख्या-तस्मिन् = रघो । तीर्णा लोहित्या-तन्नामकनदीविशेष: येन सः तीर्णलोहित्यः, तस्मिन् सति । प्राग्ज्योतिषाणाम् ईश्वरः प्राग्ज्योतिषेश्वर:= कामरूपदेशाधिपतिः । तस्य = रघोजा: = हस्तिनः, तद्गजाः, पालानस्य= द्विपबन्धनस्तम्भस्य भावः मालानता, तद्गजानामालानता ताम् सेनागजबन्धनः