________________
रघुवंशमहाकाव्ये अन्वयः--तेषु उपायनपाणिषु, परस्परेण, राज्ञा, हिमवतः, सारः हिमाद्रिणा, च, राज्ञः सारः, विज्ञातः।
वाच्य--परस्परम् राजा हिमवतः सारम्, हिमवांश्च राशः सारम् विज्ञातवान् ।
व्याख्या-तेषु-उत्सवसंकेताख्येषु गणेषु । उपायनानि =उपहाराः पाणिषु =हस्तेषु येषां त उपायनपाणयः, तेषु उपायनपाणिषु सत्सु । परस्परेण-प्रन्योन्यम् । राज्ञा = रघुणा । हिमोस्यास्तीति हिमवान् तस्य == हिमालयस्य, सारः =धनरूपः, हिमवता = हिमालयेन च । राज्ञः रघोः, सारः = बलरूपः । विज्ञातः = बुद्धः।
समा०-उपायनानि पाण्योर्येषां ते उपायनपाणयः, तेषु उपायनपाणिषु ।
अभि-यदा पराभूता उत्सवसंकेताख्यगणाः हस्तेषूपायनानि प्रादाय रघुसंमुखमागतास्तदा रघुणा हिमालयस्य धनरूपा समृद्धिविज्ञाता। हिमवतापि युद्धक्रियया रपोल विज्ञातम् ।
हिन्दी-जब कि हारे हुए उत्सवसंकेतगण राजा रघु के सामने हाथों में उपहार लेकर प्रस्तुत हुए तब राजा ने हिमालय का समृद्धिरूप सार जाना तथा हिमालय ने भी राजा का बलरूप सार जाना ।।६।।
तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः ।
पौलस्त्यतुलितस्याद्ररावधान इव ह्रियम् ॥८॥ सञ्जीविनी-स रघुस्तत्र हिमाद्रावक्षोम्यमधृष्यं यशोराशि निवेश्य निधाय । पौलस्त्येन रावणेन तुलितस्य चालितस्याद्रेः कैलासस्य ह्रियमादधानो जनयनिव । अवरोहावततार-। कैलासमगत्वैव प्रतिनिवृत्त इत्यर्थः । नहि शूराः परेण पराजितमभियुज्यन्त इति भावः ।।८०॥
अन्वयः- सः, तत्र, प्रक्षोभ्यम्, यशोराशिम्, निवेश्य, पौलस्त्यतुलितस्य अद्रेः, हियम्, मादधानः, इव अवरुरोह।
वाच्य०-तेन प्रादधानेन इव अवरुरुहे। व्याख्या-सः रघुः । तत्र-हिमालये । क्षोभितु योग्यं शोभ्यं, न क्षोभ्यम्