________________
चतुर्थः सर्गः शरैरुत्सवसङ्केतान् स कृत्वा विरतोत्सवान ।
जयोदाहरणं बाह्वोर्गापयामास किन्नरान् ॥ ७ ॥ सञ्जीविनी-स रघुः शरैणिरुत्सवसंकेतान्ताम गणान्विरतोत्सवान्कृत्वा । जित्वेत्यर्थः । किन्नरान् बाह्वोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेष गापयामास । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णो' इत्यनेन किंनराणामपि कर्तृत्वात्मत्वम् । ७॥
अन्वयः-सः शरैः, उत्सवसंकेतान्, विरतोत्सवान्, कृत्वा, बाह्वोः, जयोदा. हरणम्, किन्नरान्, गापयामास ।
वाच्य-तेन, शरैः किन्नराः बाह्वोः, जयोदाहरणम्, गापयाञ्चकिरे ।
व्याख्या-स:= रघुः। शरः =बाणः। उत्सवाश्च संकेताश्च उत्सवसंकेताः तान्=तन्नामकान् गणान् । विरतः = शान्तः, उत्सव:-हर्षः, येषां ते विरतोत्सवाः, तान् । कृत्वा=विधाय । बाह्वोः भुजयोः । जयस्योदाहरणम् -जयोदाहरणम् = तत् विजयख्यापकप्रबन्धम् । किन्नरान् गन्धर्वान् । गापयामास =गानं कारयामास।
समा०-विरत उत्सवो येषां ते विरतोत्सवाः, तान् विरतोत्सवान् । उदाह्रियते प्रनेनेत्युदाहरणम् , जयस्योदाहरणं जयोदाहरणम्, तत् जयोदाहरणम् । __ अभि० -- रघुः उत्सवसंकेताख्यान्गणान् विजित्य हतहर्षांश्च तान् कृत्वा स्थविजयख्यापकं प्रबन्ध गन्धर्वान् गापयामास ।
हिन्दी-रघु ने हिमालय पर्वत पर उत्सवसंकेत नामक गणों को जीत कर उनके हर्षोत्सवों को फीका बनाकर अपने पराक्रम का गुणगान गन्धवों से कराया ॥७॥
परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सो हिमाद्रिणा ॥७॥ सञ्जीविनी-तेषु गणेषूपायनयुक्ता पाणयो येषां तेषु सत्सु परस्परेणान्योन्यं राज्ञा हिमवतः सारो धनरूपी विज्ञातः। हिमाद्रिणापि राज्ञः सारो बलरूपी विज्ञातः। एतेन तत्रत्यवस्तूनामनय॑त्वं गणानामभूतपूर्वश्च पराजय इति ध्वन्यते ॥७॥