________________
रघुवंश महाकाव्ये
हिन्दी - हिमालय पर्वत पर रघु के द्वारा छोड़े गये सेना के पड़ावों में किरात लोगों ने देवदारु वृक्षों में बंधे, सेना के हाथियों की कण्ठरज्जुनों से उखाड़ी हुई छालों से रघु के हाथियों को ऊंचाई जानी ॥ ७६ ॥
६८
तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत् । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥ ७७ ॥
सञ्जीविनी - तत्र हिमाद्री रघोः पर्वते भवः पर्वतीयैः । 'पर्वताच्च' इति छप्रत्ययः । गणैरुत्सयस के ताख्यैः सप्तभिः सह । 'गणानुत्सवसंकेतानजयत्स स पाण्डव:' इति महाभारते । नाराचानां बारणविशेषाणां क्षेपणीयानां भिन्दिपालावामश्मनां च निष्पेषेण संघर्षेरगोत्पतिता अनला यस्मिंस्तत्तथोक्तम् | 'क्षेपणीयो भिन्दिपालः खड्गो दीर्घो महाफलः' यादवः । घोरं भीमं जन्यं युद्धमभूत् । 'युद्धमायोधनं जन्यम्' इत्यमरः ॥ ७७ ॥
अन्वयः--तत्र, रधो, पर्वती, गणैः, नाराचक्षेपणीयाश्म निष्पेषोत्पतितालम्, घोरम्, जन्यम्, श्रभूत् ।
वाच्य०- नाराचक्षेपणीयाश्म निष्पेषोत्पतितानलेन घोरेण जन्येन प्रभावि । व्याख्या - तत्र = हिमालय पर्वते, रघोः = दिलीपपुत्रस्य, पर्वते भवाः पर्वतीयाः पर्वतनिवासिनः, तैः पर्वतीयैः । गणेः = उत्सव संकेताख्यैः । नाराचा:= बारणविशेषाः, क्षेपणीयाः = भिन्दिपालाः श्रश्मानः = प्रस्तराः एषामितरेतरयोगः चाराचक्षेपणीयाश्मानः तेषां निष्पेषेण = संघर्षेण, उत्पतितः = उत्पन्नः, अनल: ह्निर्यस्मिंस्तत्तथोक्तम् । घोरं = भयानकम् । जन्यम् = युद्धम् । अभूत = बभूव ।
समा०---नाराचाश्च क्षेपणीयाश्च श्रश्मानश्च नाराचक्षेपणीयाश्मानः, वाराचक्षेपणीयाश्मनां निष्पेषः नाराचक्षेपणीयाश्मनिष्पेषः, नाराचक्षेपणीयाश्मनिष्पेषेण उत्पतित: नलः यस्मिन् तत् नाराचक्षेपणायाश्मनिष्पेषोत्पतितानलम् ।
अभि० - हिमालये रघोः उत्सव संकेताख्यगणैः सह भयंकरं युद्धमभूत् । यत्र प्रयुक्तैः नाराचैः, भिन्दिपालैः, प्रस्तरंश्च श्रन्योन्यसंघर्षेण वह्निरुत्पन्नोऽभूत् ।
=
हिन्दी - हिमालय पर्वत पर रघु का उत्सवसङ्केत नामक गणों से घोर युद्ध हुआ, जिसमें प्रयोग किये गये बारणों, भिन्दिपालों तथा पत्थरों के पारस्परिक संघर्ष से अग्नि उत्पन्न हो जाती थी ।। ७७ ।।