________________
चतुर्थः सर्गः
६७
लताविशेषा एव तेलानपेक्षप्रदीपकार्यमकुर्वन् । येषां प्रभा सरलाख्यवृक्षेषु निबद्धानां गजानां कण्ठशृङ्खलासु प्रतिफलितासीत् ।।
हिन्दी-हिमालय पर्वत पर स्थित सेना सहित रघु के लिये रात्रि के समय बिना तेल के जलने वाले दीपकों का कार्य रात में चमकनेवाली औषधिलतानों ने किया, जिनका प्रकाश चीड़ के वृक्षों में बंधे हुए हाथियों के गले की जंजीरों में प्रतिफलित होता था ॥ ७५ ।
तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः।
गजवर्म किरातेभ्यः शशंसुर्देवदारवः ।। ७६ ॥ सञ्जीविनी-तस्य रघोरुत्सृष्टेषुज्झितेषु निवासेषु सेनाविशेषेषु कण्ठरज्जुभिर्गजवेयः क्षता निष्पिष्टास्त्वचो येषां ते देवदारवः किरातेभ्यो वनचरेभ्यो गजानां वर्म प्रमाणम् । 'वर्म देहप्रमाणयोः' इत्यमरः । शशंसुः कथितवन्तः । देवदारुस्कन्धत्वक्षतर्गजानामोन्नत्यमनुमीयत इत्यर्थः ।। ७६ ॥ ___अन्वयः-तस्य, उत्सृष्टनिवासेषु, कण्ठरज्जुक्षतत्वचः, देवदारव:, किरातेभ्यः, गजवर्म, शशंसुः ।
वाच्य०-कण्ठरज्जुनतत्वग्भिः, देवदारुभिः, गजवष्म शशंसे।
व्याख्या-तस्य = रघोः । उत्सृष्टाः परित्यक्ताः ये निवासाः = वासभूमिप्रदेशाः इत्युत्सृष्टनिवासास्तेषु । कण्ठस्य =गलप्रदेशस्य रजवः इति कण्ठरज्जव:, ताभिः क्षता = खण्डिता, त्वक् = वल्कलम् येषां ते कण्ठरज्जुक्षतत्वचः । देवदारवा=देवदारुवृक्षाः। किरातेभ्यः = वनचरम तच्छजातिभ्यः । गजानां = सेना. करिणाम्, वर्म-प्रमाणम् इति गजवर्म देहौन्नत्यमिति यावत् । शशंसुः कथयामासुः।
समा०-उत्सृष्टाश्च ते निवासाश्च उत्सृष्टनिवासाः, तेषु उत्सृष्टनिवासेषु । कण्ठानां रजव: कण्ठरजवः, कण्ठरज्जुभिः क्षमा त्वक् येषां ते कण्ठरज्जुक्षत. त्वचः । गजानां वर्म गजवर्म, तत् गजवष्पं ।
अभि.- रघुणा परित्यक्तेषु सेनानिवेशेषु किराताः देवदारुवृक्षेषु निबद्धगजकण्ठबन्धनीभूतशृङ्खलाकर्षणकारणेन भिन्नत्वक्षु तदीयगजशरीरोन्नत्यमजानन् ।