________________
६२
रघुवंशमहाकाव्ये ता एव उपदा: = उपायनानि । कोसलानामीश्वरस्तम् = कोसलाधिपति रघुम् । विविशुः=प्राविशन्, उत्सेका: = गर्वाः, तु न विविशुः ।
समा०-सन्तश्च ते प्रश्वाश्च सदश्वा:, सदश्वभूयिष्ठा: सदश्वभूयिष्ठाः । द्रविणानां राशयः द्रविरण राशयः । कोसलानामीश्वरः, कोसलेश्वरः, त कोसलेश्वरम् ।
अभि-रघुपराजिता: काम्बोजा: रघवे स्वदेशोत्पन्नाश्वबहुलान् हिरण्योच्च राशीनुपहाररूपेण ददुः, किन्तु तानाध्यापि रधुः गर्व न कृतवान् ।
हिन्दी रघु से हारे हुए कम्बोज देश के राजाओं ने रघु के प्रागे अपने देश में उत्पन्न घोड़े जिसमें बहुत थे ऐसी द्रविणराशियाँ उपहार रूप से भेंट की, परन्तु राजा रघु को तनिक भी गर्व न हुमा ॥७०॥
ततो गौरीगुरु शैलमारुरोहाश्वसाधनः ।
वर्धयन्निव तत्कूटानुद्धृतैर्धातुरेणुभिः ॥७॥ सञ्जीविनी-ततोऽनन्तरमश्वसाधनः सन् गौर्या गुरुं पितरं च शैलं हिमवन्तम् । उद्धृतौरश्वखुरोद्ध्तीर्धातूनां गैरिकादीनां रेणुभिस्तत्कूटास्तस्य शृंगारिण । 'कूटोऽस्त्री शिखरं शृंगम्' इत्यमरः । वर्धयन्निव प्रारुरोह । उत्पतद्भू लिदर्शनाद् गिरिशिखरवृधिभ्रमो जायत इति भावः ॥७१।।
अन्वयः---ततः, अश्वसाधनः, गौरीगुरुम्, शैलम , उद्धृतः, धातुरेणुभिः, तत्कूटान्, वर्धयन्, इव, पारुरोह ।
वाच्य--अश्वसाधनेन, गौरीगुरु: शैलः, तस्कूटान्. वर्धयता, इव पारुरुहे ।
व्याख्या-ततः तदनन्तरम् । प्रश्वा:-धोटकाः, एव साधनानि समरसहाय. भूतानि यस्य स अश्वसाधनः । रघु: । गीर्या:=पार्वत्याः, गुरु:-पिता इति गोरीगुरुः = हिमालयः, तम् । शैलम् =पर्वतम् । उद्धृतेः- उत्यापितः । धातूनां= गरिकादीनां, रेणवः = धूलयः धातुरेणवः, तैः। तस्य हिमालयस्य कूटा। शिखरप्रदेशाः, तत्कूटास्तान् । वर्धयन् = वृद्धित्वमापावयन् । इव । पारुरोहआरोहत ।
समा--प्रश्वा एव साधनं यस्य सः अश्वसाधनः । गौर्या गुरुः गौरीगुरुः, तं गौरीगुरुम् । धातूनां रेणवा, धातुरेणवः, सेः धातुरेणुभिः। तस्य कूटा: तत्कूटाः, तान् तस्कूटान् ।