________________
चतुर्थः सर्गः व्याख्या-कम्बोजस्येमे काम्बोजा: कम्बोजदेशवासिनः । समरे युद्धे । तस्य-रघोः । वीर्यम् = प्रभावम् । सोढुम् = सहनं कर्तुम् । न ईश्वराः भनीश्वराः = असमर्थाः सन्तः। प्रालीयतेऽस्मिन्निस्यालानम्, गजानाम्-हस्तिवामालानं - बन्धनं गजालानं तेन परिक्लिष्टा: परिक्षताः गजालानपरिक्लिष्टाः, रोः । अक्षोटः वृक्षविशेषः । सार्धम् सह । मानता: नम्रीभूताः ।
समा०- कम्बोजानां राजानः काम्बोजाः । न ईश्वराः अनीश्वराः । गजावामालानं गजालानम्, गजालानेच परिक्लिष्टाः गजालानपरिक्लिष्टाः, ते: गजालानपरिक्लिष्टः ।
अभि०-कम्बोजदेशनिवासिनो राजानो युद्धे रघुप्रभावं सोढुमसमर्थाः सेवाहस्तिबन्धनीभूताक्षोटवृक्षः सहैव नम्रा बभूवुः ।
हिन्दी-कम्बोज देशवासी राजा युद्ध में रघु का तेज सहन न कर सके तथा हाथियों के बांधने से झुके हुए अखरोट के पेड़ों के साथ प्राप भी रघु के पागे झुक गये ॥६६॥
तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः।
उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥७॥ सञ्जीविनी-तेषां काम्बोजानां सद्भिरश्वभूयिष्ठा बहुलास्तुङ्गा द्रविणानां हिरण्यानाम् ‘हिरण्यं द्रविणं धुम्नम्' इत्यमरः। राशय एवोपदा उपायनानि । 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । कोसलेश्वरं कोसलदेशाधिपति तं रघु शश्वदसद्विविशुः । 'मूहः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः। तथाप्युत्सेका गर्वास्तु न विविशुः । सत्यपि गर्वकारणे न जगत्यर्थः ॥७॥
अन्वयः--तेषाम्, सदश्वभूयिष्ठाः, तुङ्गाः, द्रविणराशयः, उपदाः, कोसलेश्वरम्, शश्वत्, विविशुः, उत्सेकाः, न, विविशुः ।
वाच्य०--सदश्वभूयिष्ठः, तुङ्गः, द्रविणराशिभिः, उपदाभिः, कोसलेश्वरः शश्वत्, विविशे, उत्सेकैः, न ।
व्याख्या---सन्तश्च तेऽश्वाः सदश्वाः शोभनघोटकाः, ते यिष्ठाः = बहुलाः । तुङ्गाः = उन्नताः । द्रविणानाम् = हिरण्यानाम्, राशयः-समूहाः ।