________________
चतुर्थः सर्गः अभि०--काम्बोजविजयानन्तरं रघुः वाजिसैन्यसहायवान् सन् उत्तरदिशि वर्तमानान्नृपतीविजेतुकामः हयखुरोत्थापितगैरिकादिधातुरेणुभिः हिमालयशैलशिखराणि वर्धयन् इव हिमाचलमारोह ।
हिन्दी--काम्बोज बिजय के पश्चात् घोड़ों की सेना लेकर राजा रघु घोड़ों के खुरो से उठाई हुई गेरू, मनःशिला मादि धातुओं की धूलि से उसके शिखरों की ऊंचाई को और भी बढ़ाते हुए हिमालय पर्वत पर चढ़े ॥७॥
शशंस तुल्यसत्त्वानां सैन्य घोषेऽप्यसंभ्रमम् ।
गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥७२॥ सञ्जीविनी-तुल्यसत्वानां सैन्यः समानबलानाम् । गुहासु शेरत इति गुहाशयास्तेषाम् । “अधिकरणे शेतेः" इत्यच्प्रत्ययः । 'दरी तु कन्दरो वा स्त्री देवखात बिले गुहा' इत्यमरः । सिंहानां हरीणाम् "सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्ष: केसरी हरिः' इत्यमरः। संबन्धि परिवृत्यावलोकितं शयित्वैव ग्रीवाभङगेनावलोकनं कर्तृ सैन्यघोष सेनाकलकले संभ्रमकारणे सत्यप्यसंभ्रममन्तःक्षोभविरहित्वम् । नञः प्रसज्यप्रतिषेधेऽपि समास इष्यते । शशंस कथयामास । सैन्येभ्य इत्यर्थाल्लभ्यते । बाह्यचेष्टितमेव मनोवृत्तेरनुमापकमिति भावः। मसंभ्रान्तत्वे हेतुस्तुल्यसत्त्वानामिति । नहि समबलः समबलाद् बिभेतीति भावः ॥७२॥
अन्वयः--तुल्यसत्त्वानाम्, गुहाशयानाम्, सिंहानाम्, परिवृत्य, अवलोकि. तम्, सैन्यघोष, अपि, असम्भ्रमम्, शशंस ।
वाच्य०--सिंहानाम् परिवृत्य अवलोकितेन, सैन्यघोष, अपि, असम्भ्रमः शशंसे।
व्याख्या--तुल्यं समानं, सत्त्वं = बलं येषां ते तुल्यसत्वास्तेषाम् । ग्रहासू कन्दरासु शेरत इति गुहाशयास्तेषाम, सिंहानाम = मृगेन्द्राणाम, "सिंहो, मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः" इत्यमरः। परिवृत्त्य परावृत्त्य । प्रव. लोकितम् प्रवलोकनं 'कर्तृ' । सेवायां समवेता: सैन्याः = सेनापुरुषाः, तेषां घोषे = कलवलेऽपि । न सम्भ्रमोऽसम्भ्रमः = क्षोभाभावस्तम् । शशंस = कथयामास।