________________
चतुर्थः सर्गः अन्वयः-सिन्धुतीरविचेष्टनैः, विनीताध्वश्रमाः, तस्य, वाजिनः, लग्नकुंकुमकेसरान्, स्कन्धान्, दुधुवुः ।
वाच्य-विनीताध्वश्रमः, तस्य, वाजिभिः, लग्नकुंकुमकेसराः, स्कन्धा। दुधुविरे। __ व्याख्या--सिन्धोः नदविशेषस्य, तीरे-तटे, विचेष्टनानि-मङ्गपरिवर्तनानि इति सिन्धतीरविचेष्टनानि तः। विनीत:-दूरीकृतः, प्रध्वन:-मार्गस्य श्रमः खेदः, यस्ते विनीताध्वश्रमाः । तस्य-रघोः। वाजिनः-प्रश्वाः । लग्नं= संसक्त, कुंकुम = काश्मीरजन्म येषां ते तादृशाः केसरा = किजल्काः येषां ते लग्नकुंकुमकेसराः, तान् । स्कन्धान=स्कन्धप्रदेशान् । दुधुवुः = कम्पयामासुः ।
समा०-सिन्धोः तीरं सिन्धुतीरम्, सिन्धुतीरे विचेष्टनानि सिन्धुतीरविचेष्टनानि तैः सिन्धुतीरविचेष्टनैः। अध्वनः श्रमः प्रध्वश्रमः, विनीतः अध्वप्रमः यैस्ते विनीताध्वश्रमाः । लग्नं कुंकुम येषु ते लग्नकुंकुमाः, लग्नकुंकुमाः कसरा: येषां ते लग्नकुंकुमकेसराः, तान् लग्नकुंकुमकेसरान् ।
अभि.-सिन्धुनदस्य तीरे अङ्कपरिवर्तनेन खेदं दूरीकृत्य रघोः सेनाश्वाः कुंकुमकेसरसंसक्तिमतः स्कन्धान कम्पयामापः ।
हिन्दी-सिन्धु नामक नद के तट पर लोटकर मार्ग की थकावट को दूर करते हुए रघु की सेना के घोड़ों ने अपने कन्धों के बालों में लगे हुए केसर के कणों को हिलाकर दूर किया ॥६७॥
तत्र हूणावरोधानां भतषु व्यक्तविक्रमम् ।
कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ १८ ॥ सञ्जीविनी-तत्रोदीच्यां दिशि भर्तृषु व्यक्तविक्रमम् । भर्तृवधेन स्फुटपराक्रममित्यर्थः, रघुचेष्टितं रघुव्यापारः हूणा जनपदाख्याः क्षत्रियाः । तेषामवरोधा अन्तःपुरस्त्रियः । तासां कपोलेषु पाटलस्य पाटलिम्नस्ताडनादिकृतागण्यस्यादे. श्युपदेशक बभूव । अथवा पाटल प्रादेश्यादेष्टा तस्य तद्बभूव । स्वयं लेख्यायत इत्यर्थः ॥ ६८॥
अन्वयः-तत्र, भर्तृषु, व्यक्तविक्रमम्, रघुचेष्टितम्, हूणावरोधानाम्, कपोलपाटलादेशि, बभूव ।