________________
रघुवंशमहाकाव्ये नीबोधरिष्यन्कौबेरों कुबेरसंबन्धिनी दिसमुदीची प्रतस्थे । अनेकेनेवशब्देनेयं वाक्यार्थोपमा । यथाह दण्डो-'एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा इति ।
अन्वयः-ततः, रघुः, भास्वान्, इव, शरैः, उस्रः, इव, उदीच्यान्, रसान्, इव उपरिप्यन्, कौबेरीम् , दिशम्, प्रतस्थे ।
वाच्य०--रघुणा भास्वता उद्धरिष्यता कौमेरो दिक् प्रतस्थे ।
व्याख्या--ततः पारसविजयानन्तरम् । रघुः = दिलीपपुत्रः। भास्वन:सूर्यः, इव । शरः= बाणैः । उस्तैः= किरणः ! इव। उदीच्यान् = उदभवान् राज्ञः। रसान् =जलानि इव उद्घरिष्यन-उन्मूलयिष्यन् । कुबेरस्येयं दिक कौबेरी, तां कुबेरसंबन्धिनीम् । दिशमू-काष्ठाम्, उदीचीम् । प्रतस्थे-प्रवचाल ।
समा०-उदीच्यां भवाः उदीच्याः, तान् उदीच्यान् ।
अभि० ... पारसविजयोत्तरं यथा सूर्यः स्वतीक्ष्ण किरण: जलानि शोषयितुम् उत्तरस्यां दिशि प्रसरति, (उत्तरायणकाल इत्यर्थः ) तथैव रघुराणि उत्तरदेशस्थान राज्ञः विजेतु उदीचीम् काष्टां प्रति प्रतस्थे ।
हिन्दी-पारस देशके राजामों को जीतकर रघु उत्तर देश के राजामों को जीतने के लिए इस प्रकार आगे बढ़े जैसे कि सूर्य किरणों से जलों को शोषित करने के लिए उत्तरायण काल में उत्तर दिशा की ओर बढ़ता है ।।६।।
विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः ।
दुधुवुर्वाजिनः स्कन्धांल्लग्नकुंकुमकेसरान् ।।६।। सञ्जीविनी-सिन्धुर्नाम काश्मीरदेशेषु कश्चिन्नदविशेषः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति त्रियाम' इत्यमरः। सिन्धोस्तीरे विचेष्टनरंगपरिवर्तनैविनौताध्वश्रमास्तस्य रघोजिनोऽश्वा भग्ना: कुंकुमकेसराः कुंकुमकुसुमकिचल्का येषां तान् । यद्वा लग्नकुंकुमा: केसरा: सटा येषां तान् । 'मथ कुंकुमम् । काश्मीरजन्म' इत्यमरः । 'केसरो नागकेसरे । तुरंगसिंहयोः स्कन्धकेशेषु बहुलद्रुमे । पुनागवृक्षे कि जल्के स्यात्' इति हैमः । स्कन्धान्कायान् । 'स्कन्ध; प्रकाण्डे कायेंऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च' इति हैमः । दुधुवुः कम्पयन्ति स्म । घून कम्पने ॥६॥