________________
चतुर्थः सर्गः - यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः ॥६१॥ सञ्जीविनी-ततः सः रघुर्यवनीनां यवनस्त्रीणाम् । “जातेरसोविषयादयोपधात्" इति ङीष् । मुखानि पद्मानीव मुखपमानि । उपमितसमासः । तेषां मधुना मद्येन यो मदो मदरागः। कार्यकारणभावयोरभेदेन निर्देशः । तं न सेहे । कमिव । अकाले प्रावृड्व्यतिरिक्से काले जलदोदयः प्रायेण प्रावृषि पद्मविकाशस्याप्रसक्तत्वादब्जानां संबन्धिनं बालातपमिव । मजहितत्वादब्जसंबन्धित्वं सौरातपस्य ॥६॥
अन्वयः-सः, यवनीमुखपमानाम्, मधुमदम्, प्रकालजलदोदयः, मन्त्रा. नाम्, बालातपम्, इ३, न, सेहे।
वाच्य-तेन, मधुमदः, प्रकाजलदोदयेन, बालातपः, इव, न, सेहे । . व्याख्या-सः = रघुः। यवनीनाम् = यवनाङ्गनानाम्, मुखान्याननानि पद्मानि-कमलानि इव यवनीमुखपद्मानि, तेषाम् । मधुना = मद्येव 'जनितः' मदः = रागः, मधुमदः, तम् । भकाले = मनवसरे, यः जलदस्य-मेघस्य, उदयः = प्रादुर्भावः, इति जलदोदयः । प्रजानाम् = कमलानाम् । बालातपम्= प्रातःकालीनातपमिव । न = नैव । सेहे सोढवान् ।
समा०-मुखानि पद्मानीव मुखपमानि, यवनानां स्त्रियः यवन्यः, यवनीनां मुखपमानि यवनीमुखपद्मानि, तेषां यवनीमुखपद्मानाम् । मधुनः मदर मधुमदः, तम् मधुमदम्, मधुना मदम् इति वा । जलं ददातीति जलः, जलदस्य उदयः जलदोदयः, न कालः प्रकालः, प्रकाले जलदोदयः प्रकालजलदोदयः । बालश्चासौ मातपश्च बालातपः, तं बालातपम् । प्रप्सु जातानि अब्जानि, तेषामब्जानाम् ।
अभि-यथा वर्षातिरिक्तसमये मेघादुर्भाव: कमलविकासकारिबालातपं न सहते तथैव रघुरपि पारसीकयवनाङ्गनाननकमलानां मदिरापानजनित. रागं न सोढवान् । ताः पतिवियुक्ताश्चके ।
हिन्दी-जैसे कि वर्षाकाल के अतिरिक्त अन्य समय में मेघ का उदय कमलों को विकसित करनेवाली सूर्य की बालकिरणों को नहीं सहन कर सकता