________________
૪
रघुवंश महाकाव्ये
है उसी प्रकार पारसीक यवन स्त्रियों के मदिरापानजनित मुखराग को रघुने सहन नहीं किया ॥ ६१॥
सङ्ग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः । शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥६२॥
सञ्जीविनी - तस्य रघोरश्वसाघनैर्वाजिसैन्यैः । 'साधनं सिद्धिसैन्ययोः' इति हैमः । पश्चाद्भवैः पाश्चात्यैयंवनैः सह । 'दक्षिणापश्चात्पुरसस्त्यक्' सहार्थं तृतीया। शृङ्गाणां विकाराः शाङ्खरिण धनूंषि तेषां कूजितैः शब्दः । 'शार्ङ्ग पुनर्धनुषि शाङ्गिणः । जये च श्रंगविहिते चापेऽप्याह विशेषतः' इति केशवः । अथवा शाङ्गः शृंगसंबन्धिभिः कूजितैविज्ञेया श्रनुमेयाः प्रतियोधाः प्रतिभटा यस्मिंस्त" स्मिन्रजसि तुमुलः संग्रामः संकुलं युद्धमभूत् । 'तुमलं रणसंकुले' इत्यमरः । रजोव्याप्तोभयदलयोनं स्वपरविज्ञानं शृङ्गनादादित र दासीदिति घोर संग्रामसम्पत्तिः ॥६॥
अन्वयः - तस्य, अश्वसाघनैः, पाश्चात्यैः, 'सह' शाङ्ग कूजित विज्ञेय प्रतियोधे, रजसि तुमुल:, संग्रामः, अभूत् ।
वाच्य० - तुमुलेन, संग्रामेण प्रभावि ।
S
व्याख्या--तस्य=रघोः । धश्वाः = घोटकाः एव साधनानि = युद्धोपायभूतानि येषां ते प्रश्वसाघनाः, तैः । पाश्चात्यैः = पश्चिमदिग्भवः, राजभिः सह । शृङ्गाणां विकाराः शाङ्गरिण = धनूंषि, तेषां कूजितानि शब्दाः इति शार्ङ्गकूजितानि, तैः विज्ञेया: विज्ञातुं योग्याः, प्रतियोधाः = प्रतिभटाः यस्मिंस्तस्मिन् शार्ङ्गकूजित विज्ञेय प्रतियोधे । रजसि = रेणुसमूहे । तुमुलः = घोरः । संग्रामः= युद्धम् । प्रभूत् = बभूव ।
,
समा०-- मश्वाः साधनं येषां ते प्रश्वसाधनाः तैः प्रश्दसाधने: । पश्चात् भवाः पाश्चात्त्याः, तैः पाश्चात्यैः । श्रृंगा विकाराः शार्ङ्गारिण, शार्ङ्गणां कूजितानि शार्ङ्ग कूजितानि, शार्ङ्गकूजितैः विज्ञेयाः प्रतियोधाः यस्मिन् तत् शार्ङ्गकृतिविज्ञेयप्रतियोधम्, तस्मिन् शार्ङ्गकूजित विज्ञेय प्रतियोधे ।
अत्रि- रघोः पाश्चात्ययवनेः घोटक सेनाबाहुल्यवद्भिः सह धनुष्टंकारजनित शब्दानुमेय प्रतिभटे रजसि घोरः संग्रामः समजनि ।