________________
५२
रघुवंश महाकाव्ये
लक्षणः, तं भत्ते । त्रयः कूटाः यस्य सः त्रिकूटः तं त्रिकूटम् । जयस्य स्तम्भः जयस्तम्भः, तं जयस्तम्भम् ।
अभि० -- रघुः केरलदेशे स्वसेनागज रदनक्षत चिह्नयुक्तं त्रिकूटनामकं पर्वतमेव, उन्नतं जयस्तम्भमकरोत् ।
हिन्दी - रघु ने केरल देश में अपनी सेवा के हाथियों के दन्तप्रहारों के चिह्नों से युक्त त्रिकूट पर्वत को ही ऊंचा विजय स्तम्भ बनाया ॥५६॥
पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना । इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ॥ ६० ॥
सञ्जीविनी - ततः स रघुः संयमी योगी तत्वज्ञानेनेन्द्रियनामकरिपूनिव पारसीकान्राज्ञो जेतुं स्थलवत्मना प्रतस्थे । न तु निर्दिष्टेनापि जलपथेन, समुद्रयानस्य निषिद्धत्वादिति भावः ॥ ६०॥
अन्वयः - ततः, 'सः, रघु: ' संयमी, तत्त्वज्ञानेन इन्द्रियाख्यान् रिपून्, इव, पारसीकान् जेतुम्, स्थलवत्मंना, प्रतस्थे ।
वाच्य० -- संयमिना, स्थलवर्त्मना, जेतुम्, प्रतस्थे ।
3
"
व्याख्या - ततः = तदनन्तरम् । 'सः रघुः । संयमोऽस्यास्तीति संयमी : संयमवान् योगी | तत्त्वस्य = परमात्मनः, ज्ञानम् = अवबोधः, इति तत्त्वज्ञानं तेन इन्द्रियमित्याख्या येषां ते इन्द्रियाख्याः तान् इन्द्रियनामकान् रिपून् = शत्रून् । इव । पारसीकान् = पारसदेशीयान् म्लेच्छभूपतीन् । जेतुम् = विजेतुम् | स्थलस्य वर्त्म = मार्गः इति स्थलवर, तेन स्थलमार्गेण । प्रतस्थे = प्रचचाल ।
समा० - संयमोऽस्यास्तीति संयमी । इन्द्रियमित्याख्या येषां ते इन्द्रियाख्या:, तान् इन्द्रियाख्यान् । तत्त्वस्य ज्ञानं तत्वज्ञानम् तेन तत्त्वज्ञानेन । स्थलस्य व स्थलवर्त्म, तेन स्थलवर्त्मना ।
●
अभि - यथा कश्चित्संयमी इन्द्रियरूपिणः शत्रून् तत्त्वावबोधेन जेतुं प्रयतते तथैव रघुरपि पारसदेशीयान् भूपतीन् जेतुं स्थलमार्गेण प्रवृत्तः ।
हिन्दी - जैसे कोई संयमी इन्द्रियरूपी शत्रुधों को जीतने के लिए तत्त्वज्ञान का सहारा लेता है वैसे ही रघु भी पारस देशीय राजानों को जीतने के लिये स्थल के मार्ग से चल पड़ा ॥६०॥