________________
चतुर्थः सर्गः समा०--प्रपरस्या अन्ताः अपरान्ताः, अपरान्तानां महीपालाः अपरान्तमहीपालाः, अपरान्तमहीपालानां व्याजः, तेन अपरान्तमहीपालब्याजेन ।
अभि०-परशुरामोऽपि यस्मात् सम्प्रार्थ्य स्थान प्राप्तवान् तस्मादेव समुद्रात् रघुः पश्चिमदेशीयनृपतिमिषेण प्रार्थनां विनैव कर लेभे।
हिन्दी--जिस समुद्र से परशुराम जी ने भी प्रार्थना करने पर स्थान प्राप्त किया उसी समुद्रसे रघुने बिना प्रार्थना किये पश्चिम देशीय राजाओं के बहाने कर प्राप्त किया ॥ ५८ ॥
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भ चकार सः ॥५६॥ सञ्जीविनी-तत्र स रधुर्मत्तानामिभानां रदनोत्कीर्णानि दन्तक्षतान्येव । भावे क्तः । व्यक्तानि स्फुटानि विक्रम लक्षणानि पराक्रमचिह्नानि विजयवर्णावलिस्थानानि यस्मिंस्तं तथोक्तं त्रिकूटमेवोच्चैर्जयस्तम्भं चकार । गाढप्रकाशस्निकूटोऽद्रिरेवोत्कीर्णवर्णस्तम्भ इव रघोजयस्तम्भोऽभूदित्यर्थः ॥५६॥
अन्वयः-तत्र सः मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम्, त्रिकूटम्, एव उच्चैः जयस्तम्भम् चकार ।
वाच्य०-तेन, मत्तेभरदनोत्कीर्णब्यक्तविक्रमलक्षणः, त्रिकूटः, एव, जयस्तम्भः, चके।
व्याख्या-तत्र = पश्चिमदिशि । सः% रघुः । मत्ता:प्रमत्ता ये इभाः= गजाः इति मत्तेभाः, तेषां रदनाः = दन्ता इति मत्तेभरदनाः, तेः उत्कीर्णानिक्षतानि, एव, व्यक्तानि = स्फुटानि, विक्रमस्य = पराक्रमस्थ, लक्षणानिचिह्नानि यस्य सः मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणः, तम् । त्रयः कूटाः शिखरप्रदेशा: यस्य स त्रिकूटः, तम् तन्नामकं पर्वतम् एव । उच्चैः = अत्युच्चम् । जयस्य = विजयस्य, स्तम्भः इति जयस्तभः, तम् चकार = अकरोत् ।
समा--विक्रमस्य लक्षणानि विक्रमलक्षणानि, व्यक्तानि च तानि विक्रमलक्षणानि च व्यक्तविक्रमलक्षणानि, मत्ताश्च ते इभाश्च मत्तेभाः, मत्तेभानां रदनाः मत्तेभरदनाः, मत्तेभरदवानामुत्कीर्णानि मत्तेभरदवोत्कीर्णानि, मत्ते. भरदनोत्कीर्णः व्यक्तं विक्रमस्य लक्षणं यस्मिन्सः मत्तेभरदनोत्कीर्णव्यक्तविक्रम