________________
३
__ चतुर्थः सर्गः समा०-भोग. एषामस्ती'त भोगिनः, भोगिनां वेष्टनानि भोगिवेष्टनानि, भोगिवेष्टनानां मार्गाः भोगिवेष्टनमार्गाः, तेषु भोगिवेष्टनमार्गेषु। त्रिपदों छेत्तु शीलं येषां ते त्रिपदीछेदिनः, तेषां त्रिपदीछेदिनाम् । कर एषामस्तीति करिणः, तेषां करिणाम्।
अभि०-मलयजवृक्षेषु सर्पवेष्टनेन संजातरेखासु आधोरणनिबद्धानां पादबन्धनच्छेदकारिणामपि करिणां कण्ठबन्धनानि शिथिलानि न बभूवुः ।
हिन्दी-- चन्दन के वृक्षों में सांपों के लिपटे रहने के कारण जो रेखायें पड़ो हुई थों उनमें बाँधे हुए पादबन्धन को तोड़ देने वाले हाथियों तक के कण्ठबन्धन ढीले न हुये ॥ ४८ ॥
दिशि मन्दायते तेजा दक्षिणस्यां रवेरपि । .
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥४६॥ सञ्जीविनी-दक्षिणस्यां दिशि रवेरपि तेजो मन्दायते मन्दं भवति । लोहितादित्वात्क्यष्प्रत्ययः । 'वा क्यषः' इत्यात्मनेपदम् । दक्षिणायने तेजोमान्द्यादिति भावः । तस्यामेव पाण्ड्याः । पाण्डूनां जनपदानां राजानः पाण्ड्याः । 'पाण्डोर्य-- ण्वक्तव्यः' रघोः प्रतापं न विहिरे नसोढवन्तः । सूर्यविजयिनोऽपि विजितवानिति नायकस्य महानुत्कर्षों गम्यते ।। ४९ ॥
अन्वयः- दक्षिणस्याम्, दिशि, रवेः, अपि, तेजः, मन्दायते, तस्याम् एव, पाण्ड्याः , रघोः प्रतापम्, न, विहिरे । .. वाच्य०- रवेः, अपि, तेजसा, मन्दायते, तस्याम्, एव, पाण्ड्य:, रघोः प्रतापः, न, विषहे।
व्याख्या- दक्षिणस्याम् अवाच्याम् । दिशि = काष्ठायाम् । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः। रवेः= सूर्यस्य अपि । तेजः-प्रतापः । मन्दायते = मन्दं भवति । तस्यामेव दक्षिणस्याम् दिशि । पाण्डूनां जनपदानां राजानः पाण्डयाः = पाण्डुदेशाधीशाः। रघोः=दिलीपपुत्रस्य । प्रतापं तेजः। न=नैव । विषेहिरे-सोढवन्तः।
समा०—पाण्डूनां ( देशविशेषाणां ) राजानः पाण्ड्याः ।
अभि०—यस्यामुग्रप्रतापस्य रवेरपि तेजः मन्दं भवति तस्यामेव दक्षिणस्यां दिशि पाण्डः रघोः प्रतापः न सोढः ।