________________
रघुवंशमहाकाव्ये व्याख्या-अश्वैः घोटकैः, क्षुण्णानाम् = चूर्णतानाम् । एलानाम् = एलालतानाम् । उत्पतितुं शीलं येषां तादृशाः उत्पतिष्णवः ऊर्ध्वगमनशीलाः । फलानांक प्रसवानां, रेणवः-धूलिकणाः इति फलरेणवः। तुल्यः = समः, गन्धः सुरभिर्येषु तादृशेषु, तुल्यगन्धिपु । मत्ताः-प्रमत्ताः, ये इभाः गजाः, तेषां कटाः - गण्डस्थलानि इति मत्तेभकटाः, तेषु । ससञ्जः = संसक्ताः ।
समा०-अश्वैः क्षुण्णाः अश्वक्षुण्णाः, तासाम् अश्वक्षुण्णानाम् । तुल्यः गन्धः येषामस्त ति तुल्यगन्धिनः, तेषु तुल्यगन्धिषु । मत्ताश्च ते इभाश्च मत्तेभाः, मत्तेभानां कटाः मत्तेभकटाः तेषु मत्तेभकटेषु । फलानां रेणवः फलरेणवः । __अभि०-- तुरङ्गमखुरैश्चूर्णितानामेलानां रजःकणाः स्वसमानगन्धयुक्तेषु सेनागज गण्डस्थलेषु पवनवशात्संसक्ताः ।
हिन्दी-घोड़ों के खुरों से चूर्णित एलाफलों (इलायचो) के रजःकण अपनी गन्ध के समान गन्धवाले सेना के हाथियों के गण्डस्थलों में वायु के वश से संसक्त हो गये ॥ ४७ ॥
भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
नास्रसत्करिणां नैवं त्रिपदीछेदिनामपि ॥४॥ सजीविनी- चन्दनानां चन्द्रनगुमाणां भोगिवेष्टनमार्गेषु सर्पवेष्टनान्निम्नेषु समर्पितं सजितं त्रिपदीछेदिनां पादशृंखलच्छेदकानामपि । 'त्रिपदी पादबन्धनम्' इति यादबः । करिणाम् । ग्रीवासु भवं ग्रैवं कण्ठबन्धनम् । 'ग्रीवाभ्योपच' इत्यएप्रत्ययः । नास्रसन्न स्रस्तमभूत् । 'युद्भयो लुङि' इति परस्मैपदे पुपादिन्वाद । 'अनिदितां हल उपधायाः क्डिति' इति नकारलोपः ।। ४८।।
अन्वयः--चन्दनानाम्, भोगिवेष्टनमार्गेपु समर्पितम्, त्रिपदीछेदिताम्, अपि करिणाम्, ग्रेवम्, न, अस्रसत् ।
वाच्य-समर्पितेन, करिणाम्, ग्रैवेण, न, अस्रंसि ।
व्याख्या --चन्दनानाम् =मलयजानाम्, भोगः अस्ति येषां ते भोगिनः 'अहे: शरीरं भोगः स्यात्' इत्यमरः । तेषां यानि वेष्टनानि, तेषां मार्गाः स्थानानि, तेषु भोगिवेष्टनमार्गेषु । समर्पितम् दत्तम् । त्रिपदों छेत्तु शीलं येषां ते त्रिपदीछेदिनः, तेषां त्रिपदीछेदिनाम् =पादबन्धनच्छेदकानामपि । करिणाम् =गजानाम् । ग्रीवासु भवं ग्रेवम् कण्ठबन्धनम् । न नैव । अस्रसत् = शिथिलं बभूव ।