________________
चतुर्थः सर्गः 'उपाधिभ्यां त्यकन्नासन्नारूढयो।' इत्यनेन त्यकन्प्रत्ययः । बम्युषिताः । उपत्यकासूषितमित्यर्थः । उपान्वध्याङ् वसः' इति कर्मत्वम् ।। ४६ ॥
अन्वयः-विजिगीषोः, गताध्वनः, तस्य, बलः, मारीचोद्धान्तहारीताः, मलयाद्रेः, उपत्यकाः, अध्युषिताः ।
वाच्य०-बलानि अध्युषितवन्ति ।
व्याख्या-विजेतुमिच्छति तस्य विजिगीषोः - विजेतुमिच्छोः। गतः यातः, अध्वा मार्गः येन गताध्वा, तस्य गताध्वनः-रपोः । कियदूरं गतस्येत्यर्थः । बली -सेनापुरुषः। मरीचानां वनानि, तेषज्रान्ता-उड्डीयमानाः हारीताः पक्षिविशेषा यासु ताः मारीचोद्धान्तहारीताः । मलयाद्रेः- मलयपर्वतस्य । उपत्यकाः =अनेरासन्नभूमयः, 'उपत्यकानेरासन्ना भूमिरूवमधित्यका' इत्यमरः । अध्युषिताः - अधिष्ठिताः ।
समा०-विजेतुमिच्छु: विजिगीषुः तस्य विजिगीषोः । गतः अध्वा यस्य सः गताध्वा तस्य गताध्वनः । मरीचानां इमानि मारीचानि, मारीचेषु उत्प्लुत्य भ्रान्ताः हारीताः यासु ता: मारीचोद्भ्रान्तहारीताः, ताः मारीचो।
अभि०-विजयषिणो रघोः कियदूरं गतस्य सेना हारीतास्यपक्षिबाहुल्यवतीषु मलयागुरासन्नभूमिषु वासमकल्पयत् । ___ हिन्दी०- कुछ दूर जाने पर रघु की सेना ने मलय पर्वत के पास की भूमियों में डेरा डाला, जहाँ मारेचों के वनों में हारीत (हनियल ) नामक पक्षी उड़ रहे थे।
ससञ्जरश्वक्षुण्णानामेलानामुत्पतिष्णवः। .
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥१७॥ सञ्जीविनी-अश्वः क्षुण्णानामेलालतानामुत्पतिष्णव उत्पतनशीलाः । 'मलंकृञ् निराकृञ्' इत्यादिनेष्णुप्रत्ययः । फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु । सर्वधनोतिवदिन्नन्तो बहुवीहिः । मत्तेभानां कटेषु ससञ्जः सक्ताः । 'गजगण्डे कटीकटौ' इति कोषः॥ ४७ ॥
अन्वयः-अश्वक्षुण्णानाम्, एलानाम्, उत्पतिष्णाः फलरेणवः तुल्यगन्धिषु भत्तभकटेषु, ससजुः।
वाच्य०-उत्पतिष्णुभिः, फलरेणुभिः, तुल्यगन्धिषु मतेमकटेषु यसले ।