________________
XY
रघुवंशमहाकाव्ये
हिन्दी-दक्षिण दिशा में सूर्य का तेज भी मन्द पड़ जाता है, किन्तु उसी दिशा में रघु के तेज को पाण्डु देश के राजा न सह सके ॥ ४९ ॥
ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः।।
ते निपत्य ददुस्तस्मै यशः स्वमित्र सञ्चितम् ॥ ५० ॥ सञ्जीविनी--ते पाण्ड्यास्ताम्रपा नद्या समेतस्य संगतस्य महोदधेः संबन्धि संचितं मुक्तासारं मौक्तिकवरम् । 'सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । स्वं स्वकीयं यश इव । तस्मै रघवे निपत्य प्रणिपत्य ददुः । यशसः शुभ्रत्वादौपम्यम् । ताम्रपर्णीसंगमे मौक्तिकोत्पत्तिरिति प्रसिद्धम् ॥
अन्वयः--ते, ताम्रपर्णीसमेतस्य, महोदधेः, सञ्चितम्, मुक्तासारम्, स्वम्, सञ्चितम्, यशः, इव, तस्मै, प्रणिपत्य, ददुः ।
वाच्य०-तैः प्रणिपत्य, ददे।
व्याख्या--ते= पाण्ड्याः । ताम्रपा = नद्या, समेतस्य-संगतस्य। महोदधेः =महासागरस्य सम्बन्धि । सञ्चितम् सङ्कलितम् । मुक्तासारम् मौक्तिकवरम् । स्वम् = स्वकीयम् । सञ्चितम् । यशः = कीर्तिम् । इव । तस्मै= रघवे प्रणिपत्यनमस्कृत्य । ददुः=समर्पितवन्तः ।।
समा०--ताम्रपा समेतः ताम्रपर्णीसमेतः, तस्य ताम्रपर्णीसमेतस्य । महांश्चासौ उदधिश्च महोदधिः तस्य महोदधेः । मुक्तानां सारः मुक्तासारः, तं मुक्तासारम् ।
अभि-पराजिताः पाण्ड्यास्ताम्रपर्णीनामकनद्या संगतस्य सागरस्य सम्बन्धि सञ्चितं मुक्तासारं स्वकीय सञ्चितं यश इव रघवे प्रणिपत्य समर्पयामासुः ।।
हिन्दी--- पराजित पाण्डचदेश के राजाओं ने ताम्रपर्णी नदी से मिले हुए दक्षिण समुद्र के उत्तम मुक्तासार, रघु को, सञ्चित किये अपने यश के समान भेंट में समर्पित किये ।। ५० ॥
स निर्विश्य यथाकामं तटेष्वालीचन्दनौ । स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ।। ५१ ।। असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता ।
नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ।। ५२ ॥ सञ्जीविनी-असह्यविक्रमः स रघुस्तटेषु सानुष्वालीनचन्दनौ व्याप्तचन्दनौ ।