________________
३८
रघुवंशमहाकाव्ये __ अभि०-तस्मिन्महेन्द्रपर्वते रघुभटा आपानभूमि विरचय्य ताम्बूलीपत्रैः नारिकेलमद्यमपिबन् शत्रुयशश्च तैः पराभूतम् ।
हिन्दी०--उस महेन्द्राचल पर्वत पर रघु के सैनिकों ने मद्यपान योग्य स्थान बनाकर नारियल का आसव ताम्बूल के पत्तों के दोनों में पिया तथा शत्रुओं का यश भी पी लिया अर्थात् हर लिया ॥ ४२ ॥
गृहीतप्रतिमुक्तस्य स धमविजयी नृपः।
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ।। ४३ ! सञ्जीविनी--धर्मविजयी धर्मार्थ विजयशीलः स नृपो रघुः। गृहीतश्चासौ प्रतिमुक्तश्च गृहीतप्रतिमुक्तः । “पूर्वकालक" इत्यादिना समासः । तस्य महेन्द्रनाथस्य कालिंगस्य श्रियं जहार । धर्मार्थ नतु स्वोपभोगार्थमिति भावः । मेदिनी तु न जहार । शरणागतवात्सल्यादिति भावः ॥ ४३ ॥ ___अन्वयः- धर्मविजयी, सः, नृपः, गृहीतप्रतिमुक्तस्य, महेन्द्रनाथस्य, श्रियम्, जहार, मेदिनीम्, तु, न, जहार ।
वाच्य०-... धर्मविजयिना, तेन नृपेण श्रीः जह मेदिनी तु न जह।
व्याख्या-धर्मार्थं विजयी धर्मविजयी = पुण्यजयनशीलः, सः, नृपः = राजा रघुः । पूर्वं गृहीतः प्रतिबद्धः पश्चात् प्रतिमुक्तः परित्यक्तः तस्य गृहीतप्रतिमुक्तस्य, महेन्द्रनाथस्य महेन्द्राधिपस्य । श्रियम् = राज्यलक्ष्मीम् । जहार - अहरत् । मेदिनीम्-- पृथिवीम् 'गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही' इत्यमरः । तु, न = नैव जहार ।
समा०- गृहीतश्चासौ प्रतिमुक्तश्च गृहीतप्रतिमुक्तः,तस्य गृहीतप्रतिमुक्तस्य । विजयोऽस्यास्तीति विजयी, धर्मार्थ विजयी धर्मविजयी ।
अभि०-धर्मविजयशीलेन रघुणा पूर्व विजित्य प्रतिबद्धस्य पश्चात् कृपया परित्यक्तस्य महेन्द्राधिपस्य राज्यलक्ष्मीरेवापहृता न तु पृथिवी ।
हिन्दी-धर्मविजयशील राजा रघुने प्रथम जीतकर पकड़ लिये गये पश्चात् छोड़ दिये गये महेन्द्राधिप की राज्यलक्ष्मी का ही केवल हरण किया, पृथिवी का नहीं ॥ ४३ ॥
ततो वेलातटेनैव फलवत्पूगमालिना। अगस्त्याचरितामाशामनाशास्यजयो ययौ ॥४४॥