________________
चतुर्थः सर्गः व्याख्या-ककुत्स्थस्य गोत्रापत्यं पुमान् काकुत्स्था रघुः । तत्र-महेन्द्राद्री। द्विषाम् = शत्रूणाम् । नाराचानां - बाणानाम्, दुर्दिनम नाराचदुर्दिनम् - वर्षणदिवसम् । विषह्य-क्षान्त्वा । सच्च तन्मङ्गलं, तदर्थ स्नातः सन्मङ्गलाभिषिक्तः इव । जयस्य श्रीस्ताम् जयश्रियम्-विजयलक्ष्मीम् प्रतिदप्राप ।
समाव-नाराचानां दुर्दिनं नाराचदुर्दिनम्, तत् नाराचदुदिनम् । सच्च तत् मङ्गलञ्च सन्मङ्गलम्, सन्मङ्गलाय स्नातः सन्मङ्गलस्नातः । जयस्य श्रीः जयश्रीः, तां जयश्रियम् । __अभि०--रघुः महेन्द्राद्रौ शरवर्षणं सहित्वा माङ्गलिकसर्वोषध्यादिभिः कृताभिषेक इव विजय प्राप।
हिन्दी-राजा रघुने महेन्द्राचल पर्वत पर कलिंग देशीय राजाओं के बाणों की वर्षा को सहन करते हुए, मानो माङ्गलिक सर्वौषधि आदि से स्नान कर जयलक्ष्मी प्राप्त की ॥४१॥
ताम्बूलीनां दलैस्तत्र रचिताऽऽपानभूमयः ।
नारिकेलासवं योधाः शात्रवं च पपुर्यशः ॥ ४२ ॥ सञ्जीविनी-तत्र महेन्द्राद्रौ युध्यन्त इति योधाः । पचाद्यच् । रचिताः कल्पिता आपानभूमयः पानयोग्यप्रदेशा यस्ते तथोक्ताः संतो नारिकेलासवं नारिकेलमा ताम्बूलीनां नागवल्लीनां दलः सम्पुटकाकारैः पपुः । तत्र विजह्नुरित्यर्थः । शात्रवं यशश्च पपुः । जह्वरित्यर्थः ॥४२॥
अन्वयः--तत्र, योधाः, रचितापानभूमयः, नारिकेलासवम्, ताम्बूलीनां, दलः, पपुः, शात्रवम्, यशः, च, पपुः।
वाच्य-योधैः रचितापानभूमिभिः, नारिकेलासमः पपे शात्रवं यशश्च पपे ।
व्याख्या -तत्र-महेन्द्राद्रौ । योधाः-भटाः । रचिता-संपादिता आपानभूमिः सुरापानभूमिर्यस्तादृशाः रचितापानभूमयः । नारिकेलस्यासवः मद्यं नारिकेलासवः, तम् । ताम्बूलीनाम् नागवल्लीनाम् । दल:- पत्रः । पपुः = अपिबन् । शात्रवम्शत्रोरिदं शात्रवम् - शत्रुसंबन्धि, यशः = कीर्तिम् 'यशः कीर्तिः' इत्यमरः । पपुः ।
समा०--आपानस्य भूमिः आपानभूमिः, रचिता आपानभूमिः यस्ते रचितापानभूमयः । नारिकेलानामासवः नारिकेलासवः, तं नारिकेलासवम् । .