________________
रघुवंशमहाकाव्ये उद्यतमुद्युक्तं शक्रं शिलावर्षी पर्वत इव । प्रतिजग्राह प्रत्यभियुक्तवान् । अभिजगामेत्यर्थः॥४०॥
अन्वयः-गजसाधनः, कालिङ्गः, , तम्, पक्षच्छेदोद्यतम्, शक्रम शिलावर्षी, पर्वतः, इव, प्रतिजग्राह । __ वाच्य०-गजसाधनेन, कालिंगेन, सः पक्षच्छेदोद्यतः, शक्रः, शिलावर्षिणा, पर्वतेन, इव, प्रतिजगृहे।
व्याख्या--गजाः = हस्तिन एव साधनानि-युद्धोपकरणानि यस्य सः, गजसाधनः । कालिङ्ग:-कालिङ्गस्थो राजा । अस्त्रः आयुधः । तम्-रघुम् । पक्षाणां मरुतां, छेदे = कर्तने उद्यत: उद्युक्तः इति पक्षच्छेदोद्यतः, तम् । शक्रम् इन्द्रम् । शिलाः दृषदः वर्षति तच्छीलः प्रस्तरदर्षणकारी । पर्वतः - गिरिः । इव । प्रतिजग्राह - प्रत्यभियुक्तवान् ।
समा०-गजा एव साधनं यस्य सः गजसाधनः । कलिङ्गानां राजा कालिङ्गः । पक्षाणां छेदः पक्षच्छेदः, पक्षबछेदे उद्यतः पक्षच्छेदोद्यत:, तं पक्षच्छेदोद्यतम् । शिलां वर्षतीति शिलावर्षी।
अभि०-यथा कश्चित् पर्वतः स्वपक्षच्छेदायोद्यतं शक्रं प्रस्तरः प्रतिरोध तथैव गजसाधनवान् कलिङ्गदेशीयो राजा आयुधैः रघु प्रत्यभियुक्तवान् ।
हिन्दी-जैसे कोई पर्वत अपने पक्ष काटने को सामने आये इन्द्र के ऊपर पत्थरों की वर्षा करता हो उसी प्रकार कलिंग देश के राजा ने रघु के ऊपर शस्त्रों की वर्षा की ॥४०॥
द्विषां विषह्य काकुत्स्थस्तत्रं नाराचदुर्दिनम् ।
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ।। ५५ || सञ्जीविनी---काकुत्स्थो रघुस्तत्र महेन्द्राद्री द्विषां नाराचदुर्दिनं नाराचानां बाणविशेषाणां दुर्दिनम् । लक्षणया वर्षमुच्यते । विषह्य सहित्वा । सद्यथाशास्त्रम् मङ्गलस्नात इव विजयमङ्गलार्थमभिषिक्तः। जश्रियम् प्रतिपेदे प्राप । 'यत्तु सर्वौषधिस्नानं तन्माङ्गल्यमुदीरितम्' इति यादवः ॥ ४१ ॥
अन्वयः--काकुत्स्थः, तत्र, द्विषाम्, नाराचदुर्दिनम्, विष ह्य, सन्मङ्गलस्नातः; इव, जयश्रियम्, प्रतिपेदे ।
वाच्य-काकुत्स्थेन सन्मङ्गलस्नातेन इव जयश्री: प्रतिपेदे ।