________________
चतुर्थः सर्गः
स प्रतापं महेन्द्रस्य मूनि तीक्ष्णं न्यवेशयत् । अंकुशं द्विरदस्येव यन्ता गम्भीरवेदिनः || ३६ |
सब्जीविनी - - स रघुर्महेन्द्रस्य कुलपर्वतविशेषस्य 'महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।।' इति विष्णु भ पुराणात् । मूर्ध्नि तीक्ष्णं दुःसहं प्रतापम् । यन्ता सारथिर्गम्भीरवेदिनों द्विरदस्य गज विशेषस्य मूर्ध्नि तीक्ष्णं निशितमंकुशमिव । न्यवेशयन्निक्षिप्तवान् । 'त्वग्भेदाच्छोणितस्रावान्मांसस्य क्रथनादपि । आत्मानं यो न जानाति सा स्याद्गम्भीरवेदिता ॥' इति राजपुत्रीये । 'चिरकालेन यो वेत्ति शिक्षां परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः ।।' इति मृगचर्मीये ॥ ३९ ॥
गम्भीरवेदिनः,
अन्वयः =स, महेन्द्रस्य मूर्ध्नि, तीक्ष्णम्, प्रतापम् यन्ता, द्विरदस्य, मूनि, तीक्ष्णम्, अङ्कुशम्, इव, न्यवेशयत् ।
३५
वाच्यः -- तेन, तीक्ष्णः, प्रतापः यन्त्रा, तीक्ष्णः, अङ्कुशः, इव, न्यवेश्यत । व्याख्या--सः—रघुः। महेन्द्रस्य = कुलपर्वतविशेषस्य । मूर्ध्नि = मस्तके शिखरे च । तीक्ष्णम् = तीव्रम् । प्रतापम् = तेजः । यन्ता = हस्तिपकः । गम्भीरं वेत्ति, तादृशस्य गम्भीरवेदिनः गजविशेषस्य । द्विरदस्य = गजस्य । मूर्ध्नि = शिरसि, तीक्ष्णं = तीव्रं । अङ्कुशम् = सृणिमिव । न्यवेशयत् = निवेशयामास ।
=
समा०-- गम्भीरं वेत्तीति गम्भीरवेदी, तस्य गम्भीरवेदिनः । द्वौ रदौ यस्य सः द्विरदः, तस्य द्विरद्दस्य ।
अभि०० यथा हस्तिपको गम्भीरवेदिनो द्विपस्य मूनि तीक्ष्णसृणि निवेशयति तथैव रघुणापि महेन्द्राचलस्य शिखरे स्वतेजो न्यवेशि ।
हिन्दी — जैसे हाथीवान् गम्भीरवेदी हाथी के मस्तक में अङ्कुश घुसेड़ देता है इसी प्रकार राजा रघु ने भी अपना तेज महेन्द्रा चाल पर्वत के शिखर पर प्रतिष्ठापित किया ।। ३९ ।।
प्रतिजग्राह कालिंगस्तमस्त्रैर्गजसाधनः ।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥ ४० ॥
सञ्जीवनी- - गजसाधनः पुष्कलगजसामग्रीवान् कालिङ्गः कलिङ्गानां राजा । 'द्वघञ्मगधकलिङ्ग' इत्यनेनाण्प्रत्ययः । अस्त्रैरायुधैस्तं रघुम् । पक्षाणां छेदे भेदे i