________________
३४
रघुवंशमहाकाव्ये
अभि०- यथा कलमाख्याः शालिविशेषाः पूर्वमुत्पाट्य पश्चात्प्रतिरोपिताः सस्थसमृद्धि वर्धयन्ति तथैव पूर्व स्वस्थानाच्च्याविताः पश्चात्प्रतिष्ठापिता बङ्गीया रधुं धनादिभिः संवर्धयामासुः ।
हिन्दी...जैसे कि कलम नामक शालिविशेष पहले उखाड़कर पुनः प्रतिरोपित किये हुए अधिक फलते हैं उसी प्रकार पदभ्रष्ट किये जाकर पुनः प्रतिष्ठापित किये हुए बङ्गीय राजाओं ने रघु को धन से पूर्ण किया ॥ ३७ ।।
स ती कपिशां सैन्यैबद्धद्विरदसेतुभिः।
कलादर्शितपथः कलिङ्गाभिमुखो ययौ ।।६८॥ सजीवनी--स रघुर्बद्धा द्विरदा एव सेतवो यैस्तैः सैन्यैः कपिशां नाम नदी तोर्वा । 'करभाम्' इति केचित्पन्ति । उत्कलै राजभिरादर्शितपथः संदर्शितमार्गः न् । कलिंगाभिमुखो ययौ ॥ ३८ ॥
अन्वयः-सः, बद्धतिरदसेतुभिः, सैन्यैः, कपिशाम् , तीर्खा, उत्कलादर्शितथः सन्, कलिङ्गाभिमुखः, ययो ।
बाच्च० -- तेन, उत्कलादर्शितपथेन, कलिङ्गाभिमुखेन, यये ।
व्याख्या-सः- रघुः । बद्धाः-पंक्तिरूपेणावस्थिताः, द्विरदाः = गजा एव सेतवः = आलयः यस्तादृशैः : सैन्यैः = सेनापुरुषैः । कपिशाम्-तन्नाम्नीम् नदीम् । जोर्वा == समुत्तीर्य । उत्कलैः- उत्कलदेशीयैरासमन्तात् दर्शितः = निवेदितः, पन्थाः - मार्गों यस्य तादृशः सन् । कलिङ्गस्याभिमुखः कलिंगाभिमुखः = कलिङ्गदेशं लक्ष्यीकृत्य । ययौ = जगाम ।
समा०-बौ रदौं येषां ते द्विरदाः; द्विरदा एव सेतवः द्विरदसेतवः, बद्धाः द्विरदसेतवः यस्तानि बद्धद्विरदसेतूनि, तैः बद्धद्विरदसेतुभिः। उत्कलानां राजानः उत्कलाः, उत्कलैः आदर्शितः पन्थाः यस्य सः उत्कलादर्शितपथः। कलिङ्गानाम् अभि ! समक्षं ) मुखं यस्य सः कलिङ्गाभिमुखः ।
अभि... स रघुः स्वसेनागजैरेव सेतुं निर्माय कपिशां तीर्दा उत्कलदेशीय राजभिः प्रदर्शितमार्गः सन् कलिङ्गदेशं लक्ष्यीकृत्य जगाम ।
हिन्दी-राजा रघु ने अपनी सेना के गजों द्वारा पुल का निर्माण करके कपिशा नदी को पार किया। उत्कल देशवासियों से आगे का मार्ग ज्ञात करके फिर कलिंग की ओर प्रस्थान किया ।। ३८ ।।