________________
चतुर्थः सर्गः
सञ्जीवनी- - ततः प्राचीविजयानन्तरं फलवत्पूगमालिना फलितक्रमुकश्रेणीमता । व्रीह्मादित्वादिनिप्रत्ययः, वेलायाः समुद्रकूलस्य तटेनोपान्तेनैवागस्त्येनाचरितामाशां दक्षिणां दिशमनाशास्यजयः मयत्नसिद्धत्वादप्रार्थनीयजयः सन् । ययौ । “अगस्त्यो दक्षिणामाशामाश्रित्य नभसि स्थितः । वरुणस्यात्मजो योगी विन्ध्यवातापिमर्दनः || ” इति ब्रह्मपुराणे ।। ४४ ।
३९
अन्वयः -- ततः, फलवत्पूगमालिना, वेलातटेन, एव, अगस्त्याचरिताम्, आशाम्, अनाशास्यजयः, 'सन्' ययौ ।
व्याख्या - ततः = तदनन्तरम् । फलवतां == फलितानां, पूगानां क्रमुकाणां, माला श्रेणी विद्यते यस्य तादृशेन फलवत्पूगमालिना । वेलायास्तटेन=समुद्रकूलभागेन । एव । अगस्त्येन कम्भसम्भवेन, आचरिता = अधिष्ठिता इति अगस्त्याचरिता, ताम् अगस्त्याचरिताम् । आशाम् = दिशम्, दक्षिणां दिशमित्यर्थः । न आशास्यः = प्रार्थनीयः, जयः यस्य सः अनाशास्यजयः, सन् । ययो = जगाम ।
=
समाद - फलान्येषां सन्तीति फलवन्तः फलवन्तश्च ते पूगाश्च फलवत्पूगाः, फलवत्पूगानां मालाऽस्यास्तीति फलवत्पूगमालि, तेन फलवत्पूगमालिना । वेलायास्तटं वेलातटम्, तेन वेलातटेन । अगस्त्येन आसमन्तात् चरिता अगस्त्याचरिता, ताम् अगस्त्याचरिताम् । अनाशास्यः जयः यस्य सः अनाशास्यजयः ।
अभि० - पूर्वी दिशं विजित्य रघुः फलयुक्तक्रमुकश्रेणीसुशोभिनेन समुद्रतटमार्गेणैव दक्षिणां दिशं प्रतस्थे ।
हिन्दी - रघु पूर्व दिशा की विजय के पश्चात् फलित सुपारी के वृक्षों के समूह से सुशोभित समुद्रतट के द्वारा ही दक्षिण दिशा की ओर चल पड़े ||४४॥ स सैन्यपरिभोगेण गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयामित्राकरोत् ॥४८॥
सञ्जीवनी - स रघुः । गजानां दानेन मदेन सुगन्धिना सुरभिगन्धिना । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इत्नेनेकारादेशः समासान्तः । यद्यपि गन्धस्येत्व तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिकगन्धविवक्षायामेवेकारादेशः, तथापि निरंकुशाः कवयः । तथा च माघकाव्ये - ' ववुरयुक्छदगुच्छसगन्धयः सततगास्ततगानगिरोऽलिभिः' इति । नैषधे च 'अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते
1