________________
२८
रघुवंशमहाकाव्ये ___ सञ्जीविनी-स रघुः शक्तिमत्त्वात्समर्थत्वान्ममपृष्ठानि निर्जलस्थानानि । 'समानो मरुधन्वानी' इत्यमरः । उदम्भांस्युद्भूतजलानि चकार । नाव्या नौमिस्तार्या नदीः । 'नाव्यं त्रिलिंग नौतार्ये' इत्यमरः । नौवयोधर्मविषमूलमूलसीतातुलाभ्यः' इत्यादिना यत्प्रत्ययः। सुप्रतरा: सुखेन ताश्चिकार । विपिनान्यर. ण्यानि । 'अटव्य रण्य विपिनम्' इत्यमरः। प्रकाशानि निवृक्षारिण चकार । शक्त्युत्कर्षात्तस्यागम्यं किमपि नासीदिति भावः ॥३१॥
अन्वयः-सः, शक्तिमत्त्वात्, मरुपृष्ठानि, उदम्भांसि, चकार, नाव्याः, नदीः, सुप्रतराः, चकार, विपिनानि, प्रकाशानि चकार ।
वाच्य-तेन, शक्तिमत्त्वात्, मरुपृष्ठानि, उदम्भांसि, नाव्याः, नद्यः, सुप्र. तराः, विपिनानि, प्रकाशानि, च, चक्रिरे ।
व्याख्या-सः-रघुः। शक्तिः सामर्थ्यमस्यास्तीति, तस्य भावस्तत्त्वं, तस्मात् शक्तिमत्त्वान-सामर्थ्यशालित्वात् । मरुपृष्ठानिधन्वप्रदेशान् । उद्गतानिन्नानि, अम्मासि-जलानि, येषु तानि । चकार-अकरोत् । नावा तार्या नाव्या: नौकाद्वारा तरणयोग्याः नदी: सरितः। सुप्रतराः सुलेन तर्तुं शक्याः, चकार तथा विपिनानि =बनानि । प्रकाशानि=प्रकाशयुक्तानि । चकार= अकरोत् ।
समा-शक्तिः अस्यास्तीति शक्तिमान्, शक्तिमत: भावः शक्तिमत्त्वम । तस्मात् शक्तिमत्त्वात् । मरोः पृष्ठानि मरुपृष्ठानि, तानि मरुपृष्ठानि । उद्भूतं अम्भः येषु तानि उदम्भांसि, तानि उदम्भांसि । सुखेन प्रतः, शक्या: सुप्रतराः, ना: सुषतराः । प्रकाश एषामस्तीति प्रकाशानि 'अर्शवाद्यजन्तम्' ।
अभि.-सर्वसामर्थ्यशालिना रधुरणा स्वविजययात्रासमये मरुप्रदेशा: जलयुक्ताः कृताः, तथा नावा तरणयोग्या नद्यः सुखतरणयोग्याः कृताः । वनानि च वृक्षच्छेदादिना प्रकाशयुक्तानि कृतानि ।
हिन्दी-सामर्थ्य शाली रघुने विजय यात्रा के समय मरुप्रदेश जलयुक्त बना दिये, नाव से पार उतरने योग्य नदियाँ पुल आदि बंधवा कर सुखसे पार उतरने योग्य बना दी तथा घने वनों को उनके वृक्ष कटवा कर प्रकाशयुक्त बनवा दिया ॥ ३१ ॥