________________
चतुर्थः सर्गः
२६
स सेनां महतीं कर्षन् पूर्वसागरगामिनीम् ।।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥३२॥ सञ्जीविनी-महतीं सेना पूर्वसागरगामिनी कर्षन्स रघुः । हरस्य जटाम्यो भ्रष्टां गङ्गां कर्षन् । सापि पूर्वसागरगामिनी। भगीरथो नाम कश्चित्कपिलतेजोदग्धानां सगराणां नप्ता तत्पावनाय हरकिरीटाद् गङ्गां प्रवर्तयिता राजा। यत्संबन्धाद् गङ्गा च भागीरथीति गीयते ॥३२॥
अन्वयः-पूर्वसागरगामिनीम्, महतीम्, सेनाम्, कर्षन्, सः, हरजटाभ्रष्टाम् 'पूर्वसागरगामिनीम' गङ्गां कर्षन् भगीरथः, इव, बभौ।
वाच्य०-कर्षता तेन भगीरथेन, इव, बभे ।
व्याख्या--पूर्व: पूर्वस्यां दिशि वर्तमानः, सागरः समुद्रः। तं गच्छति = याति तच्छीलाम पूर्वसागरगामिनीम् । महतीम् बृहतीम् । सेनाम् चमूम् । कर्षन् = नयन् । सः= रघुः । हरस्य = शिवस्य, जटाभ्यः = सटाभ्यः कपर्दादित्यर्थः, भ्रष्टाम् = निर्गलिताम् । 'पूर्वसागरगामिनीम्' गङ्गाम् = भागीरथीम् । कर्षन्न यन् । भगीरथ:-सूर्यवंशीयराजविशेषः । इव यथा । बभौ = शुशुभे ।
समा०-पूर्वश्चासौ सागरश्च पूर्वसागरः, पूर्वसागरं गन्तु शीलमस्या इति पूर्वसागरगामिनी, तां पूर्वसागरगामिनीम् । हरस्य जटा हरजटा, हरजटायाः भ्रष्टा हरजटाभ्रष्टा, तां हरजटाभ्रष्टाम् ।
अभि-दिग्विजयार्थ प्राची प्रस्थितो रघुः स्वसेनां पूर्वसागरपर्यन्तं नयन् शिवकपर्दगलितां गङ्गां पूर्वसागरं नयन भगीरथ इव शोभागवाह ।
हिन्दी-दिग्विजय के लिये प्रस्थान किये हुये रधुने अपनी सेना को पूर्व सागर की मोर ले जाते हुए, शिव के जटाजूट से निकली हुई गङ्गा को पूर्व सागर की मोर ले जाते हुए भगीरथ राजा के समान शोभा पाई ॥२॥
त्याजितैः फलमुत्खातैर्भग्नश्च बहुधा नृपैः ।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥३३॥ सब्जीविनी--'फलं फले धने बीजे निष्पत्ती भोगलाभयोः' इति केशवः । फलं लाभम । वृक्षपक्षे प्रसव च । त्याजितः त्यजेण्यंन्ताद्विकर्मकादप्रधाने कर्मरिण