________________
चतुर्थः सर्गः पाकाश के समान तथा रथों के पहियों से उठाई हुई धूल से प्राकाश को भूतल के समान बनाता हुमा पूर्व दिशा की ओर चल पड़ा ॥२६॥
प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः ॥३०॥ सञ्जीविनी--अग्रे प्रतापस्तेजोविशेषः । स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम' इत्यमरः । तत: शब्दः सेनाकलकल: तदनन्तरं परागो धूलिः । 'पराग: पुष्परजसि धूलिस्नानीययोरपि' इति विश्वः । पश्चाद्रथादि रथाश्वादिकं चतुरंगबलम् । 'रथानीकम्' इति पाठे इतिशब्दाध्याहारेण योज्यम् । इतीत्थं चतुःस्कन्धेव चतु! हेव । 'स्कन्ध: प्रकाण्डे कायांशे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च' इति हैमः । सा चमूर्ययो।
अन्वय-:प्रने, प्रतापः ततः शब्दः, तदनन्तम्, परागः, पश्चाद्, रथादि इति, चतुःस्कन्धा, इव, सा, चमूः, ययो।
वाच्य०--प्रने, प्रतापेन ततः, शब्देन, तदनन्तरम परागेण, पश्चाद्, रथादिना इति तया चम्वा चतुःस्कन्धया इव यये।
व्याख्या--अग्रेसर्वतोऽग्रे, प्रताप: तेजः । ततः = पश्चात् । शब्दः सेना ध्वनिः । तस्यानन्तरं पश्चात् । पराग:-धूलिः। पश्चात् तदने । रथादि स्यन्दनादि इति = इत्थम् । चत्वारः चतुःसंख्यकाः, स्कन्धा: व्यूहा यस्यास्तादृशी। इव=यथा । सा चमूः = सेना । ययौ ='जगाम ।
समा०-तस्य अनन्तर: तदनन्तरः, तं तदनन्तरम् । रथ पादिर्यस्य तत् रथादि । चत्वारः स्कन्धाः यस्याः सा चतुःस्कन्धा ।
अभि०-प्रथमं तेजस्तत: सेनाकोलाहलस्ततो रथधूलिस्ततः स्यन्दनादयः एवं व्यूहचतुष्टयवती रघोः सेना दिग्विजयार्थं पूर्व प्राचीमुद्दिश्य प्रस्थिता ।
हिन्दी-पहले तेज, तब सेना का कोलाहल, उसके पीछे रथों की धूलि, तब रथ, इस प्रकार रघु की सेना चार विभागों में विभक्त होकर चल पड़ी ॥३०॥
मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः। विपिनानि प्रकाशानि शक्तिमत्त्वाञ्चकार सः॥३१।।