________________
- चतुर्थः सर्गः वाच्य०-वयोवृद्वामिः, पौरयोषिद्भिः, सः क्षीरोमिभिः, अच्युतः, इव अवाकीर्यत ।
व्याख्या-वयसा = अवस्थया, बृद्धाः = जीः इति वयोवृद्धाः। पुरे भवा: पौराः, तेषां योषितः स्त्रियः। तम्-रघुम् । लाजैः=भृष्टवान्यविशेषः । मन्दरादुघूतैः=मन्दराचलादुत्सन्नैः, पृषत-बिन्दुभिः । क्षीरोमयः = क्षीरसागरवीचयः । मच्युतम् =भगवन्त विष्णुमिव । अवाकिरन् = ववृषुः।
समा०-वयसा वृद्धाः वयोवृद्धाः। पुरे भवाः पौराः, पौराणां योषितः पोरयोषितः । मन्दरेण उद्धृताः मन्दरोद्धृताः, तैः मन्दरोद्धृतः। क्षीरस्य ऊर्मयः क्षीरोर्मयः । न च्युतः अच्युतः, तम् भच्युतम् ।
अभि०- दिग्विजयार्थं गच्छतो रघोरुगरि पौरवृद्धा योषितस्तथा लाजान्वषुर्यथा समुद्रमन्थनसमयेऽच्युतस्योपरि क्षीरसागरवीचयः मन्दराचलोत्थापितान् जल बिन्दूत्ववृषुः।
हिन्दी-दिग्विजय के लिए प्रस्थान करते समय राजा रघु के ऊपर नागरिकों की बृद्धाओं ने इस प्रकार खीलों की वर्षा की जिस प्रकार समुद्र मन्थन के समय समुद्र की तरङ्गों ने मन्दराचल से उडाये जल के बिन्दुओं को भगवान अच्युत के ऊपर वर्षा की थी ॥२७॥
स ययौ प्रथमं प्राची तुल्यः प्राचीनबर्हिषा ।
अहिताननिलोख़्तैस्तर्जयन्निव केतुभिः ॥२८॥ सञ्जीविनी--प्राचीनबहिर्नाम कश्चिन्महाराज इति केचित् । प्राचीनबहिरिन्द्रः 'पर्जन्यो मघवा वृषा हरिहयः प्राचीनबहिः स्मृतः' इतीन्द्रपर्यायेषु हलायुधाभिधानात् । तेन तुल्यः स रघुः। अनिलेनानुकूलवातेनोद्भूतः केतुभिर्यजरहितान् रिपूस जयन्निव भसंयन्निव तजिभोरनुदात्तत्त्वेऽप चक्षिङो ङित्करणेनानुदात्रोत्त्वनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनात्परस्मैपदमिति वामनः । प्रथमं प्राची दिशं ययौ ॥२८॥
अन्वयः-प्राचीनबहिषा, तुल्यः, सः, अनिलोबूतैः, केतुभिः, अहितान्, तर्जयन्, इव, प्रथमम्, प्राचीम्, ययो ।
पाच्य-प्राचीनबहिषा,तुल्येन, तेन, तर्जयता, इव, प्रथम, प्राची, यये ।