________________
२४
रघुवंशमहाकाव्ये
शुभदैवान्वितः । 'अयः शुभावहो विधिः' इत्यमरः । स रघुः षड्विध मोलभृत्यादिरूपं बल सैन्यम् । 'मोलं भृत्यः सहृच्छणी द्विषदाट विक बलम्' इति कोशः । मादाय दिशां जिगीषया जेतुमिच्छया प्रतस्थे चचाल ।। २६ ॥
अन्वयः--गुप्तमूल प्रत्यन्तः, शुद्धपाणिः, अयान्वितः, सः, षड्विधं, बलम्, मादाय, दिग्जिगीषया, प्रतस्थे ।
वाच्य० -- गुप्तमूल प्रत्यन्तेन, शुद्धपाणिना, प्रयान्वितेन, तेन, षड्विधम्, बलम्, प्रादाय, दिग्जिगीषया, प्रतस्थे ।
व्याख्या-गुप्तो रक्षितौ, मूलं = स्वनिवासस्थानं, प्रत्यन्त: प्रान्तदुर्गं च येन सः गुप्तमूलप्रत्यन्तः। शुद्धः = उद्धृतः, पाणिः = पृष्टशत्रुः येन तादृशः। प्रयेन= शुभावह विधिना, प्रन्वितः = युक्तः । सः-रधुः। षड्विधम् = मौलभृत्यादिषट्प्रकारकम् , बलम् =सेनाम् । प्रादाय = गृहीत्वा । दिशा = काष्ठानां जेतुमिच्छा, जयकरणाभिलाषः, तया दिग्जिगीषया । प्रतस्थे = प्रचवाल ।
समा०-मूलञ्च प्रत्यन्तश्च मूलप्रत्यन्ती, गुती मूल प्रत्यन्तो यस्य सः गुप्तमूल प्रत्पन्नः । शुद्धः पाणिः यस्य सः शुद्ध पाणिः । अयेन अन्वितः प्रयान्वितः । षड् विधाः यस्य तत् षड्विधम्, तत् षड्विधम् । जेतुमिच्छा जिगीषा, दिशां जिगीषा दिग्जिगीषा, तया दिग्जिगीषया ।
अभि० -- स्वरराष्ट्रप्रबन्धं सम्पाद्य पृष्ठशत्रु च व्यापाद्य शुभावह विधियुक्तः रघुः दिग्वजयं कर्तुं प्रवचाल ।
ीि -अपने राज्य का प्रबन्ध करके पृष्ठ शत्रुओं को मारकर मगलाचार पूर्वक छः प्रकार की सेना साथ लेकर राजा रघु विजय-यात्रा के लिये चल पड़े ।।
अवाकिरन्वयोवृद्धास्त लाजैः पौरयोषितः ।
पृषतैर्म दरोद्धृतैः क्षीरोमय इवाच्युतम् ।।२७॥ सञ्जीविनी-पोरयोषितस्तं प्रयान्त रघु लाजराचारलाजैः । मन्दरोद्धृतैः पृषत बिन्दुभिः । क्षीरोमयः क्षीरसमुद्रोर्मयोऽच्युतं विष्णमिव । अवाकिरन्पर्य क्षिपन्।।
अन्वयः-वयोवृद्धाः, पौरयोषितः, तम्, लाजेः, मन्दरोद्भूतः, पृषतः क्षीरोमया, अच्युतम्, इव, प्रवाकिरन् ।