________________
चतुर्थः सर्गः सञ्जीविनी-वाजिनामश्वानां नीराजनाविधी नीराजनाख्ये शांतिकर्मणि सम्यग्विधिवद्धतो होमसमिद्धो वह्निः। प्रगता दक्षिणं प्रदक्षिणम् । तिष्ठद्गुप्रभृतित्वादव्ययीभावः । प्रदक्षिणा याचिर्वाला तस्या व्याजेन हस्तेनेव तस्मै जयं ददी । उक्तञ्चाहवयात्रायाम् 'इद्धः प्रदक्षिणगतो हुतभुङ नृपस्य धात्री समुद्ररशनां वशगां करोति' इति । वाजिग्रहणं गजादीनामप्युपलक्षणम्, तेषामपि नीराजनाविधानात् ।।
अन्वयः-वाजिनीराजनाविधी, सम्यग् हुत:, वह्निः प्रदक्षिणाचिर्व्याजेन, हस्तेन, इव, तस्मै, जयम् ददो।
वाच्य०--हुतेन, वह्निना, प्रदक्षिणाािजेन, हस्तेन, इव, जयः ददे ।
व्याख्या--वाजिनां घोटकानां यो नीराजनाविधिः नीराजनाख्यशान्ति. कर्म, तस्मिन् वाजिनीराजनाविधी । सम्यक् यथाशास्त्रम्, हुतः तर्पितः । वह्निःअग्निः। गता दक्षिणं प्रदक्षिणम्, प्रदक्षिणम् याचिः-ज्वाला तस्या व्याजा=मिषः, तेन प्रदक्षिणाचियाजेन । हस्तेन = स्वकरेण । इव = यथा । तस्मै =रघवे । जयं = विजयं । ददो-दत्तवान् ।
समा०-नीराजनाया विधिः नीराजनाविधिः, वाजिनां नीराजनाविधिः वाजिनीराजनाविधिः, तस्मिन् वाजिनीराजनाविधी। प्रगता दक्षिणं प्रदक्षिणम्, प्रदक्षिणम् अचिः प्रदक्षिणाचि:, प्रदक्षिणाषिः व्याजः प्रदक्षिणाचियाजः, तेन प्रदक्षिणाचिाजेन ।
अभि०-यदा रघुः वाजिनीराजनाख्यं शान्तिकर्म कुर्वन् वह्नी हवनीयं द्रव्यं चिक्षेप तदैव वह्निः प्रदक्षिणज्वालया तस्मै स्वकरेणेव विजयं प्रदत्तवान् ।
हिन्दी-जब कि रघु ने नीराजनाख्य शान्ति कर्म करते हुए अग्नि में हवन किया तभी अग्नि की ज्वाला दाईं मोर को निकली. मानो उसने रघु को अपने हाथ से ही विजय प्रदान किया ॥ २५ ॥
स गुप्त-मूलप्रत्यन्तः शुद्धपाणिरयान्वितः ।
षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥२६॥ सञ्जीविनी--गुप्तो मूलं स्वनिवासस्थानं प्रत्यन्ता प्रान्तदुर्ग च येन स गुप्तमूलप्रत्यन्तः। शुद्धपाणिरुद्धतपृष्ठशत्रुः सेनया रक्षितपृष्ठदेशो वा। प्रयान्वित।