________________
रघुवंश महाकाव्ये
हिन्दी- -मद के समान गन्धवाले सप्तपर्ण के कुसुमों की गन्ध सूंघकर रघु की सेना के हाथी 'यह बनले गजों के मद का गन्ध है' मानो इसी स्पर्धा से सातों अंगों से मद की वर्षा करने लगे ।। २३ ।।
२२
सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ! यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥ २४ ॥
सञ्जीविनी - सरितो गाधाः सुप्रतराः कुर्वती । पथो मार्गांचाश्यानकर्दमाञ्च पङ्कान्कुर्वती । 'संयोगादेरातोघा तोयंण्वतः” इति श्यतेनिष्ठातस्य नत्वम् । शरच्छरदृतुस्तं रघुं शक्तेरुत्साहशक्तेः प्रथमं प्राग्यात्रायें दण्डयात्राये चोदयामास प्रेरयामास । प्रभावमन्त्रशक्तिसंपन्नस्य शरस्स्वयमुत्साहमुत्पादया
मासेत्यर्थः ॥२४॥
अन्वयः--सरितः, गाधाः कुर्वती, पथः, च प्राश्यानकर्दमान्, "कुर्वती” शरद्, तम्, शक्त ेः प्रथमम्, यात्रायें, चोदयामास ।
वाच्य० - - सरितः गाधाः कुर्वत्या शरदा सः शक्तेः प्रथमम् यात्रायै चोदया ।
व्याख्या - सरितः =नदीः । गाधाः = सुप्रतराः । कुर्वती = विदधती | पथः = मार्गांश्च । श्राश्यानः शुष्कः कर्दमः = पङ्कां येषां ते प्राश्याचकर्दमास्तान्, तथोक्तान् कुर्वती । शरद् = शरदृतुः । तम् = रघुम् । शक्तेः = उत्साहशक्तेः । प्रथमम् = प्राक् । यात्रार्य = विजययात्रा यै चोदयामास = प्रेरयामास ।
"
समा०-- आसमन्तात् इयानः कर्दमः येषां ते प्राश्यानकर्दमाः, तान् प्राश्यानकर्दमान् ।
अभि० -- शरत्काले नद्यः सुप्रतराः सम्पन्नाः, मार्गाश्च कर्दमरहिता जाताः । एवं शरदा शक्तियुक्तस्य रघोर्मनसि महोत्साहः समजनि ।
हिन्दी -- --शरद ना जाने पर नदियाँ सुगमतापूर्वक पार करने योग्य हो गईं तथा मार्गों के कीचड़ सूख गये । इस प्रकार शरद् ऋतु ने प्रभावशक्ति
सम्पन्न रघु के हृदय में विजय यात्रा के लिये उत्साह भर दिया || २४ ॥ तस्मै सम्यग्धुतो वह्निर्वाजिनीराजनाविधौ । प्रदक्षिणाचिव्याजेन हस्तेनेव जयं ददौ ||२५||